Book Title: Visheshavashyak Bhashya Part 03
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah

View full book text
Previous | Next

Page 50
________________ विशेषा० ||४४८|| Jain Education Internation | द्रव्यानुयोगः । नयविचारश्चार्वाक् प्रायो निषिद्धः । इति न सामायिकस्य प्रायो नयैष्ववतार इति ॥ ९५० ॥ संख्याप्रमाणे तर्ह्यवतरतीदं नवा ?, इत्याह 'संखामाणे कालियसुयपरिमाणे परित्तपरिमाणं । सुयओ तदत्थओ पुण भणियं तमणंतपज्जायं ॥ ९५९ ॥ संख्या नाम-स्थापना द्रव्य-क्षेत्र कालौ - पम्य-परिमाण भावभेदाऽनुयोगद्वारेष्वष्टधा प्रोक्ता । तत्र संख्यामाने संख्याप्रमाणे विचा कालिक परिमाणे एतदवतरति । तत्र कालिकश्रुतपरिमाणं द्विविधम्- सूत्रतः, अर्थतश्च । तत्र सूत्रतस्तु सामायिकाध्ययनं परीत्तं संख्याताक्षरादिनियतपरिमाणम् । तस्य सामायिकस्यार्थस्तदर्थस्ततः पुनरनन्तपर्यायत्वादनन्तपरिमाणं भणितमिति । तदेवं प्रमाणमप्युक्तं संक्षेपतः ।। ९५१ ॥ अथ वक्तव्यतामभिधित्सुराह सैमओ जो सिद्धंतो सो स-परो भयगओ तिविहभेओ । तत्थ इमं अज्झयणं ससमयवत्तव्वयानिययं ॥ ९५२ ॥ यः सिद्धान्तः स तावत् समय उच्यते । स च त्रिविध:- स्वसमय- परसमयो - भयसमयभेदात् । अत एव वक्तव्यताऽनुयोगद्वारेषु त्रिविधा प्रोक्ता - स्वसमयवक्तव्यता, परसमयवक्तव्यता, स्व-परोभयवक्तव्यता चेति । तत्रेदं सामायिकाध्ययनं स्वसमयवक्तव्यतानियतं, स्वसमय स्यैवेह प्रतिपाद्यमानत्वादिति ।। ९५२ ॥ न केवलमिदमध्ययनम्, किन्तु सर्वाण्यप्यध्ययनानि स्वसमयवक्तव्यतानियतान्येव । कुतः ?, इत्याह पैरसमओ उभयं वा सम्मद्दिस्सि ससमओ जेण । तो सव्वज्झयणाई ससमयवत्तव्वनिययाई ॥ ९५३ ॥ यतः परसमयः, उभयसमयो वा सम्यग्दृष्टेः स्वसमय एव, यथावद्विषयविभागेन व्यवस्थापनात् । ततो यद्यपि केषुचिदध्ययनेषु परो-भय-समयवक्तव्यतापि श्रूयते, तथापि तानि सर्वाण्यपि स्वसमयवक्तव्यतानियतान्येव, सम्यग्दृष्टिपरिग्रहात् । एतच पूर्वमनेकशो भावितमेवेति ।। ९५३ ॥ १ संख्यामाने कालिकश्रुतपरिमाणे परीसपरिमाणम् । श्रुततस्तदर्थतः पुनर्भणितं तदनन्तपर्यायम् ॥ ९५६ ॥ २ समयो यः सिद्धान्तः स स्व-परो भयगतस्त्रिविधभेदः । तत्रेदमध्ययनं स्वसमयवक्तव्यतानियतम् ९५२ ॥ ३ परसमय उभयं वा सम्यग्दृष्टेः स्वसमयो येन । ततः सर्वाध्ययनानि स्वसमयवक्तव्यनियतानि ॥ ९५३ ॥ For Personal and Private Use Only बृहद्वृत्तिः । ॥४४८॥ www.jainelibrary.org

Loading...

Page Navigation
1 ... 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202