Book Title: Visheshavashyak Bhashya Part 03
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah

View full book text
Previous | Next

Page 85
________________ विशेषा० ॥४८३॥ BREAMIDASEEMBER इत्यादेस्तैरभिधानतो विषयसुखसिद्धेस्तत्तीर्थस्य सुखावतारता । तथा, कुशास्त्रोक्तनिपुणयुक्तिभिस्तीबवासनोत्पादात् , व्रतत्यागे च तैर्महतः संसारदण्डादेः प्रतिपादनात , तत्समीपगृहीतव्रतस्य दुष्परित्याज्यत्वात् तत्तीर्थस्य दुरुत्तारता । इमां च युक्तिं भाष्यकार: स्वयमेव किश्चिदाह- 'विसयसुहेत्यादि' गतार्थम् ॥२॥ दुःखावतारं सुखोत्तारमिति तृतीयं बोटिकानां दिगम्बराणाम् । तत्र नाग्न्यादेर्लज्जादिहेतुत्वेन दुरध्यवसेयत्वात् तीर्थस्य दुःखावतारता । अनेषणीयपरिभोग-कपायबाहुल्यादेस्तदसमञ्जसदर्शनात् , नाग्न्यादेश्चातिलज्जनीयत्वेन तत्पराभग्नानां तत्तीर्थस्य सुखोत्तारतेति ॥३॥ दुःखावतारं दुरुत्तारमिति चरमं चतुर्थ मोक्षफलम् । जैनानां साधूनां राग-द्वेष-कषाये-न्द्रिय-परीषहो-पसर्गादिजयस्य, तथा, अप्रमत्ततया समिति-गुप्ति-शिरोलुश्चनादिकष्टानुष्ठानस्य दर्शनात् तत्तीर्थस्य दुःखावतारता । सुशास्त्रोक्तनिपुणयुक्तिभिस्तीव्रतरवासनोत्पादनात् , व्रतत्यागे चातिमहतः संसारादिदण्डस्याऽभिधानात् तत्तीर्थस्य दुरुत्तारता ॥४॥ अन्ये तु सुखोत्तारता दुरुत्तारतां च सर्वत्र मुक्तिप्राप्तिमाश्रित्य व्याचक्षते- तत्र सरजस्कानां स्वल्पेनैवेश्वरोक्तानुष्ठानेन किल| मुक्तिमाप्त्यभ्युपगमात् सुखोत्तारं तीर्थम् , 'सुखेनैवाऽस्माद् भवार्णवमुत्तरन्ति' इति व्युत्पत्तेः । शाक्यानां तु दुरवापविशिष्टध्यानमार्गाद् योगिज्ञानोत्पत्त्यादिक्रमेण मुक्तिमाप्त्यभ्युपगमाद् दुःखोत्तारता 'दुःखेनाऽस्मात् संसारमुत्तरन्ति' इति कृत्वा । बोटकानां तु भिक्षाशुद्ध्यादीनां गौणत्वेनाभ्युपगमाद् नाग्न्यलक्षणनिग्रन्थत्वमात्रादेव मुक्त्यभ्युपगमात सुखोत्तारता | साधनां तु पूर्वोक्तकष्टानुष्ठानादी मुक्क्याश्रयणाद् दुरुत्तारता । अवतारपक्षे तु सर्वत्र पूर्वोक्तैव भावना । इत्यलं विस्तरेणेति ॥ १०४०॥ १०४१ ॥ अत्र प्रेरकः पाह नेणु जं दुहावयारं दुक्खोत्तारं च तं दुरहिगम्मं । लोयम्मि पूइयं जं सुहावयारं सुहुत्तारं ॥ १०४२ ॥ ननु यद् दुःखावतारं च दुरुत्तारं च तीर्थ तद् दुरधिगम्यम् , एवंभूतं च जैनतीर्थ भवद्भिः प्रतिपादितम् । एतच्चायुक्तम् , एवंभूततीर्थस्य करणक्रियाविधातित्वेनाऽनिष्टार्थप्रसाधकत्वात् , लोकप्रतीतिवाधितत्वाच; तथा चाह- लोके हि यत् सुखावतारं सुखोत्तारं च तीर्थ तत् पूजितं तदेवोपादेयम् , तरणक्रियानुकूल्येनेष्टार्थप्रसाधकत्वात् । तस्मात् प्रथम एव भङ्गः श्रेयान् , इति | प्रेरकाभिप्राय इति ।। १०४२ ॥ HO १५. छ. 'दुःखोत्ता'। २ ननु यद् दुःखावतारं दुःखोत्तारं च तद् दुरधिगमम् । लोके पूजितं यत् सुखावतारं सुखोत्तारम् ॥ १.४२ ॥ ॥४८॥ Jan Education Intemato For Don Penny

Loading...

Page Navigation
1 ... 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202