________________
विशेषा०
॥४८३॥
BREAMIDASEEMBER
इत्यादेस्तैरभिधानतो विषयसुखसिद्धेस्तत्तीर्थस्य सुखावतारता । तथा, कुशास्त्रोक्तनिपुणयुक्तिभिस्तीबवासनोत्पादात् , व्रतत्यागे च तैर्महतः संसारदण्डादेः प्रतिपादनात , तत्समीपगृहीतव्रतस्य दुष्परित्याज्यत्वात् तत्तीर्थस्य दुरुत्तारता । इमां च युक्तिं भाष्यकार: स्वयमेव किश्चिदाह- 'विसयसुहेत्यादि' गतार्थम् ॥२॥
दुःखावतारं सुखोत्तारमिति तृतीयं बोटिकानां दिगम्बराणाम् । तत्र नाग्न्यादेर्लज्जादिहेतुत्वेन दुरध्यवसेयत्वात् तीर्थस्य दुःखावतारता । अनेषणीयपरिभोग-कपायबाहुल्यादेस्तदसमञ्जसदर्शनात् , नाग्न्यादेश्चातिलज्जनीयत्वेन तत्पराभग्नानां तत्तीर्थस्य सुखोत्तारतेति ॥३॥
दुःखावतारं दुरुत्तारमिति चरमं चतुर्थ मोक्षफलम् । जैनानां साधूनां राग-द्वेष-कषाये-न्द्रिय-परीषहो-पसर्गादिजयस्य, तथा, अप्रमत्ततया समिति-गुप्ति-शिरोलुश्चनादिकष्टानुष्ठानस्य दर्शनात् तत्तीर्थस्य दुःखावतारता । सुशास्त्रोक्तनिपुणयुक्तिभिस्तीव्रतरवासनोत्पादनात् , व्रतत्यागे चातिमहतः संसारादिदण्डस्याऽभिधानात् तत्तीर्थस्य दुरुत्तारता ॥४॥
अन्ये तु सुखोत्तारता दुरुत्तारतां च सर्वत्र मुक्तिप्राप्तिमाश्रित्य व्याचक्षते- तत्र सरजस्कानां स्वल्पेनैवेश्वरोक्तानुष्ठानेन किल| मुक्तिमाप्त्यभ्युपगमात् सुखोत्तारं तीर्थम् , 'सुखेनैवाऽस्माद् भवार्णवमुत्तरन्ति' इति व्युत्पत्तेः । शाक्यानां तु दुरवापविशिष्टध्यानमार्गाद् योगिज्ञानोत्पत्त्यादिक्रमेण मुक्तिमाप्त्यभ्युपगमाद् दुःखोत्तारता 'दुःखेनाऽस्मात् संसारमुत्तरन्ति' इति कृत्वा । बोटकानां तु भिक्षाशुद्ध्यादीनां गौणत्वेनाभ्युपगमाद् नाग्न्यलक्षणनिग्रन्थत्वमात्रादेव मुक्त्यभ्युपगमात सुखोत्तारता | साधनां तु पूर्वोक्तकष्टानुष्ठानादी मुक्क्याश्रयणाद् दुरुत्तारता । अवतारपक्षे तु सर्वत्र पूर्वोक्तैव भावना । इत्यलं विस्तरेणेति ॥ १०४०॥ १०४१ ॥
अत्र प्रेरकः पाह
नेणु जं दुहावयारं दुक्खोत्तारं च तं दुरहिगम्मं । लोयम्मि पूइयं जं सुहावयारं सुहुत्तारं ॥ १०४२ ॥
ननु यद् दुःखावतारं च दुरुत्तारं च तीर्थ तद् दुरधिगम्यम् , एवंभूतं च जैनतीर्थ भवद्भिः प्रतिपादितम् । एतच्चायुक्तम् , एवंभूततीर्थस्य करणक्रियाविधातित्वेनाऽनिष्टार्थप्रसाधकत्वात् , लोकप्रतीतिवाधितत्वाच; तथा चाह- लोके हि यत् सुखावतारं सुखोत्तारं च तीर्थ तत् पूजितं तदेवोपादेयम् , तरणक्रियानुकूल्येनेष्टार्थप्रसाधकत्वात् । तस्मात् प्रथम एव भङ्गः श्रेयान् , इति | प्रेरकाभिप्राय इति ।। १०४२ ॥
HO १५. छ. 'दुःखोत्ता'। २ ननु यद् दुःखावतारं दुःखोत्तारं च तद् दुरधिगमम् । लोके पूजितं यत् सुखावतारं सुखोत्तारम् ॥ १.४२ ॥
॥४८॥
Jan Education Intemato
For Don Penny