SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ बृहद्वत्तिः। न संपूर्णाभिप्रेतफलस्य साधकानीत्यर्थः, विकलक्रियावदिक्ति; यथा भिषक्मतीचारकातुरौषधाद्यन्यतराङ्गविकला क्रिया न संपूर्णाविशेषाभिमेतफलसाधनी, तथा कुतीर्थान्यपीति । तदेवं यथोक्तप्रकारेण द्रव्य-भावतीर्थप्ररूपणा कृता ॥ १०३९ ।। ॥४८२॥ अथ प्रकारान्तरेण तत्परूपणां कर्तुमाह अहव सुहोतारुत्तारणाई दवे चउव्विहं तित्थं । एवं चिय भावम्मि वि तत्थाइमयं सरक्खाणं ॥ १०४०॥ तव्वणियाण बीयं विसयसुहकुसत्थभावणाधणियं । तइयं च बोडियाणं चरिमं जइणं सिवफलं तु॥१०४१॥ इह द्रव्यतीर्थे चत्वारो भङ्गाः, तद्यथा- सुखावतारं सुखोत्तारम् , सुखावतारं दुरुत्तारम् , दुःखावतारं सुखोत्तारम् , दुःखावतारं दुरुत्तारम् । एवं भावतीर्थेऽपीयं चतुर्भङ्गी द्रष्टव्या । इह च यत्र सुखेनैवावतरन्ति प्रविशन्ति प्राणिनस्तत् सुखावतारम् , सुखेनैव यत उत्तरन्ति- सुखेनैव यद् मुश्चन्तीत्यर्थः, तत् सुखोत्तारम् ; इत्याद्यभङ्गवर्तितीर्थभावार्थः । एवमन्यत्रापि । एतच्च सरजस्कानां शैवानां संबन्धि वेदितव्यम् । तथाहि- राग-द्वेष-कषाये-न्द्रिय-परीषहो-पसर्ग-मनो-वाक् कायजयादिलक्षणस्य तथाविधदुष्करकष्टानुष्ठानस्य तैः क्रियमाणस्याऽदर्शनात, यथा कथश्चिद्रूपतयाऽपि च तैव्रतपरिपालनस्याऽभिधानात् सुखेनैव प्राणिनस्तद्दीक्षां प्रतिपद्यन्ते, इति तत्तीर्थस्य सुखावतारता । तच्छास्त्रेषु च न तथाविधाऽऽवासकखाभावा काचिद् निपुणा युक्तिरस्ति, यद्वासितान्तरात्मा पुमांस्तद्दीक्षां न परित्यजेत् । किश्च, "शैवो द्वादश वर्षाणि व्रतं कृत्वा ततः परम् । यद्यशक्तस्त्यजेतापि यागं कृत्वा व्रतेश्वरे ॥ १॥" इत्यादिना दीक्षात्यागस्य तैर्निर्दोषतयाऽप्यभिधानात सुखेनैव तद्दीक्षां जन्तवः परित्यजन्ति, इति तत्तीर्थस्य सुखोत्तारतेति ॥१॥ द्वितीयभङ्गकवति तीर्थ 'तव्वणियाणं ति' सुगतानां संवन्धि मन्तव्यम् । तथाहि"मृद्वी शय्या प्रातरुत्थाय पेया भक्तं मध्ये पानकं चापराणे । द्राक्षाखण्डं शर्करा चार्धरात्रे मोक्षश्चान्ते शाक्यपुत्रेण दृष्टः ॥ १॥" ___ "मैणुन्नं भोयणं भोचा मणुन्नं सयणासणं । मणुन्नंसि अगारंसि मणुन्नं झायए मुणी ॥१॥" १ अथवा सुखावतारोत्तारणादि द्रव्ये चतुर्विधं तीर्थम् । एवमेव भावेऽपि तत्रादिमकं सरजस्कानाम् ॥ १०४ ॥ सौगतानां द्वितीय विषयसुखकुशावभावनाधनिकम् । तृतीयं च बोटिकानां चरमं जनं शिवफलं तु ॥ १०४१॥ २ मनोज्ञं भोजनं भुक्त्वा मनोजं शयनाऽऽसनम् । मनोज्ञेऽगारे मनोशं ध्यायति मुनिः ॥1॥ ॥४८२॥ Jan Education interna For Personal and Private Use Only www.jaineltrary.org
SR No.600164
Book TitleVisheshavashyak Bhashya Part 03
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages202
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy