________________
विशेषा०
॥ ४८१ । ।
Jain Educationa Internati
अहवा सम्मदंसण-नाण-चरित्ताइं तिन्नि जस्सत्था । तं तित्थं पुव्वोइयमिहे अत्थो वत्थुपज्जाओ ॥१०३७|| अथवा, सम्यग्दर्शनादयस्त्रयोऽर्था यस्य तत् त्र्यर्थम्, अर्थशब्दश्चात्र वस्तुपर्यायः, त्रिवस्तुकमित्यर्थः । तच संघ एव, तदव्यतिरिक्तत्वात्, त एव वा सम्यग्दर्शनादयस्त्रयोऽर्थाः समाहृतास्त्र्यर्थम्, संख्यापूर्वत्वात्, स्वार्थत्वाच्च द्विगोरिति ।। १०३७ ॥
तदेवं संघो भावतस्तीर्थम्, त्रिस्थम्, त्र्यर्थं वा, इति प्रतिपाद्य सांप्रतमिदमेव जैनं तीर्थमभिप्रेतार्थसाधकम्, नान्यत् इति प्रमाणतः प्रतिपादयन्नाह -
इह सम्मसद्धाणो- वलद्धि - किरियासभावओ जइणं । तित्थमभिप्पेयफलं सम्मपरिच्छेय किरिय व्व ॥ १०३८ ॥
जैनमेव तीर्थमभिप्रेतार्थसाधकमिति प्रतिज्ञा, सम्यक् श्रद्धानो-पलब्धि क्रियास्वभावत्वात् सम्यग्दर्शन- ज्ञान-चारित्रात्मकत्वादित्यर्थः, इह यत् सम्यक् श्रद्धानो-पलब्धि-क्रियात्मकं तदिष्टार्थसाधकं दृष्टम् ; यथा सम्यक्परिच्छेदवती रोगापनयनक्रिया, यच्चेष्टार्थसाधकं न भवति, तत् सम्यक् श्रद्धानो-पलब्धि-क्रियात्मकमपि न भवति, यथोन्मत्तप्रयुक्त क्रिया; तथा च शेषतीर्थानि । इदमुक्तं भवति - यथा कस्यचिद् निपुणवैद्यस्य सम्यग् रोगादिस्वरूपं विज्ञाय विशुद्धश्रद्धानवत आतुरस्य सम्यगौषधप्रयोगादिक्रियां कुर्वतोऽभिप्रेतार्थसिद्धिजयते । एवं जैन तीर्थादपीति ।। १०३८ ।।
अन्यतीर्थान्यप्येवंविधानि भविष्यन्ति, न, इत्याह
नाभिप्पेयफलाई तयंगवियलत्तओ कुतित्थाइं । वियलनयत्तणओ चिय वियलाई वियलकिरिय व्व ॥१०३९॥ सुगतादिप्रणीतानि कुतीर्थानि नाभिप्रेतफलानि । कुतः १, इत्याह- 'तरंगेत्यादि' तस्याभिप्रेतार्थस्याऽङ्गानि तदङ्गानि सम्यग् - ज्ञानादीनि कारणानि, तद्विकलत्वात् तद्रहितत्वात्, नयविकलत्वाच्च विकलानि तानि । सर्वैरेव ह्येकैकांशग्राहिभिर्नयैर्मिलितैः संपूर्णमनन्तधर्मात्मकं वस्तु निश्चीयते, शेषतीर्थानि त्वेक-द्वयादिन यमात्रमतावलम्बित्वेन समग्रनयविकलान्येवेति तानि नयविकलानि, ततो
६१
१ अथवा सम्यग्दर्शन- ज्ञान चारित्राणि त्रीणि यस्पार्थाः । तत् तीर्थं पूर्वोदितमिहाऽर्थो वस्तुपर्यायः ॥ १०३७ ॥ ३ इह सम्यक् श्रद्धानो-पलब्धि-क्रिया-स्वभावतो जैनम् तीर्थमभिप्रेतफलं सम्यक्परिच्छेदक्रियेव ॥ १०३८ ॥ २ नाभिप्रेतफलानि तदङ्गविकलत्वतः कुतीर्थानि । विकलनयत्वत एव विकलानि विकलक्रियेव ॥ १०३९ ॥
For Personal and Private Use Only
२ क. ग. 'हमत्थो' । ४ क. ग. 'र्थस्य सा ।
बृहद्वृत्तिः ।
॥४८१॥
www.jainelibrary.org