________________
विशेषा०
॥ ४८० ॥
Jain Educationa Internation
तथा; क्रोधश्च, लोभव, कर्म च तन्मयास्तत्स्वरूपा यथासंख्यं ये दाह-तृष्णा-मलाः । क्रोधो हि जीवानां मनः-शरीर संतापजनकत्वाद् दाहः, लोभस्तु विभवविषयपिपासाऽऽविर्भावकत्वात् तृष्णा, कर्म पुनः पवनोद्धृतश्लक्ष्णरजोवत् सर्वतोऽवगुण्ठनेन मालिन्यहेतुत्वाद् मलः अतस्तेषां क्रोध-लोभ-कर्ममयानां दाह तृष्णा-मलानां यदेकान्तेनाऽत्यन्तं चापनयनानि करोति । तथा, कर्मकचवरमलिनाद् भवौघात् संसारापारनीरप्रवाहात् परकूलं नीत्वा शुद्धिं कर्ममलापनयनलक्षणां यतः करोति, तेन तत्संघलक्षणं भावतस्तीर्थमिति पूर्वसंबन्ध: । अपरमपि नयादितीर्थं तुच्छा ऽनैकान्तिका ऽऽत्यन्तिकदाह- तृष्णा-मलापनयनं विदधाति एतत्तु संघतीर्थमनादिकालालीनत्वेनानन्तानां दाह- तृष्णा-मलानामैकान्तिकमात्यन्तिकं चापनयनं करोति; अतः प्रधानत्वाद् भावतीर्थमुच्यते, नद्यादितीर्थं त्वप्रधानस्वाद् द्रव्यतीर्थमिति भावः ।। १०३४ ।।
अथवा, प्राकृते 'तित्थं' इत्युक्ते 'त्रिस्थम्' इत्येतदपि लभ्यते, इत्येतदाह
दाहोसमाइसु वा जं तिसु थियमहव दंसणाईसु । तो तित्थं संघो च्चिय उभयें व विसेसणविसेस्सं ॥ १०३५ ॥ अथवा, यद्यस्माद्यथोक्तदाहोपशम-कृष्णाच्छेद-मलक्षालनरूपेषु, यदिवा, सम्यग्दर्शन -ज्ञान- चारित्रलक्षणेषु त्रिष्वर्थेषु स्थितं ततस्त्रिस्थं संघ एव; उभयं वा संघ - त्रिस्थितिलक्षणविशेषण - विशेष्यरूपं द्वयं त्रिस्थम् । इदमुक्तं भवति किं त्रिस्थम् ? संघः, कथ संघः ? त्रिस्थं, नान्यः, इत्येवं विशेषणविशेष्ययोरुभयं संतुलितं त्रिस्थमुच्यत इति ।। १०३५ ।।
अथवा, प्राकृते 'तित्थं' इत्युक्ते 'व्यर्थम्' इत्यपि लभ्यते, इत्येतद् दर्शयन्नाह -
कोहग्गिदाहसमणादओ व ते चैव जस्स तिष्णत्था । होइ तियत्थं तित्थं तमत्थसदो फलत्थोऽयं ॥ १०३६॥
क्रोधाग्निदाहोपशम-लोभतृष्णाव्यवच्छेद-कर्ममलक्षालनलक्षणास्त एवानन्तरोक्तास्त्रयोऽर्थाः फलरूपा यस्य तत् त्र्यर्थे तच्च संघ एव तदव्यतिरिक्तं ज्ञानादित्रयं वा व्यर्थ प्राकृते 'तित्थं' उच्यते ! अर्थशब्दश्चायं फलार्थो मन्तव्यः । इदमुक्तं भवति- भगवान् संघः, तदव्यतिरिक्तज्ञानादित्रयं वा महातरुरिव भव्यैर्निषेव्यमाणं क्रोधाग्निदाहशमनादिकांस्त्रीनर्थान् फलति, अतस्त्र्यर्थमुच्यत इति ।। १०३६ ॥ अथवा, वस्तुपर्यायोऽत्रार्थ इत्याह
१ दाहोपशमादिषु वा त्रिषु स्थितमथवा दर्शनादिषु । ततस्तीर्थं संघ एवोभयं वा विशेषणविशेष्यम् ॥ १०३५ ॥ २. 'यंपिवि' । ३ क्रोधामिदाहशमनादयो वा त एव यस्य त्रयोऽर्थाः । भवति त्र्यर्थं तीर्थं तदर्थशब्दः फलार्थोऽयम् ॥ १०३६ ॥
For Personal and Private Use Only
बृहद्वतिः ।
1182011
www.jainelibrary.org