SearchBrowseAboutContactDonate
Page Preview
Page 81
Loading...
Download File
Download File
Page Text
________________ विशेषा ० ॥४७९ ॥ Jain Educations Internation गोमा ! अहाता नियमा तित्थंकरे, तित्थं पुण चाउवन्नो समणसंघो" इति । इह च तीर्थसिद्धौ तारकादयो नियमादाक्षिप्यन्त एव । तत्रेह संघे तीर्थे तद्विशेषभूत एव तारकः साधुः, ज्ञान-दर्शन- चारित्रत्रिकं पुनस्तरणम्, तरणीयं तु भवसमुद्रः । इह च तीर्थतारकादीनां परस्परतोऽन्यता, अनन्यता च विवक्षावशतो बोद्धव्या । तत्र सम्यग्दर्शनादिपरिणामात्मकत्वात् संघस्तीर्थम्, तत्रावतीर्णानामवश्यं भवोदधितरणात् । तद्विशेषभूतत्वात् तदन्तर्गत एव साधुस्तरीता, सम्यग्दर्शनाद्यनुष्ठानात् । साधकतमत्वेन तत्करणरूपतामापन्नं ज्ञानादित्रयं तु तरणम् । तरणीयं त्वौदयिकादिभावपरिणामात्मकः संसारसमुद्र इति ॥ १०३२ ॥ कस्मात् पुनः संघो भावतीर्थम् १, इत्याह नाण- दंसण-चरितभावओ तव्विवक्खभावाओ । भवभावओ य तारेइ तेण तं भावओ तित्थं ॥ १०३३॥ यद्यस्मात् तारयति पारं प्रापयति तेन तत् संघलक्षणं भावतस्तीर्थमिति संबन्धः । कुतस्तारयति १, इत्याह- तद्विपक्षभावादिति तेषां ज्ञान दर्शन -चारित्राणां विपक्षोऽज्ञान-मिथ्यात्वाविरमणानि तद्विपक्षस्तल्लक्षणो भावो जीवपरिणामस्तद्विपक्षभावस्तस्मात् तारयति । कुतः १, इत्याह- ज्ञान-दर्शन -चारित्रभावतः - ज्ञानाद्यात्मकत्वादित्यर्थः । यो हि ज्ञानाद्यात्मको भवति सोऽज्ञानादिभावात् परं तारयत्येवेति भावः । न केवलमज्ञानादिभावात् तारयति, तथा, भवभावतश्च तारयति, भवः संसारस्तत्र भवनं भावस्तस्मादित्यर्थः । यस्मात् स्वयं ज्ञानादिभावात्मकः, तथाऽज्ञानादिभावादु भवभावाच्च भव्यांस्तारयति, तस्मादसौ संघो भावतीर्थमितीह तात्पर्यम्; उक्तं च- " रागाद्यम्भाः प्रमादव्यसनशतचलद्दीर्घकल्लोलमालः क्रोधेर्ष्यावाडवाग्निर्मृतिजननमहान क्रचक्रौघरौद्रः । तृष्णापातालकुम्भो भवजलधिरयं तीर्यते येन तूर्ण तज्ज्ञानादिस्वभावं कथितमिह सुरेन्द्रार्चितैर्भावितीर्थम् ॥ १ ॥ " इति ।। १०३३ ॥ उपपत्यन्तरमाह- तैह कोह-लोह-कम्ममयदाह-तण्हा मलावणयणाई । एगंतेणचंतं च कुणइ य सुद्धिं भवोघाओ ॥ १०३४ ॥ १ यज्ज्ञान-दर्शन-चारित्रभावतस्तद्विपक्षभावात् । भवभावतश्च तारयति तेन तद् भावतस्तीर्थम् ॥ १०३३ ॥ २ तथा क्रोध लोभ कर्ममयदाह तृष्णा-मलापनयनानि । एकान्तेनाऽत्यन्तं च करोति शुद्धि भवौघात् ॥ १०३४ ॥ For Personal and Private Use Only बृहद्वृतः । ॥४७९ ॥ www.jainelibrary.org
SR No.600164
Book TitleVisheshavashyak Bhashya Part 03
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages202
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy