________________
विशेषा०
॥४७८॥
Jain Educationa International
इह केचित् तीर्थका मन्यन्ते - नद्यादेः संबन्धि द्रव्यतीर्थ किल स्नान- पाना-वगाहनादिभिर्विधिवदासेव्यमानं भवतारकं संसारमहामकरालयमापकं भवत्येव । कुतः १, तारणादिफलमिति कृत्वा शरीरतारण-मलक्षालन-तृद्व्यवच्छेद- देहोपशमादिफलत्वादित्यर्थः ; अनेन चाध्यक्षसमीक्षितदेहतारणादिफलेन परोक्षस्यापि संसारतारणफलस्याऽनुमीयमानत्वादिति भावः । तदेतद् नोपपद्यते, स्नानादेवोपघातहेतुत्वात्, खड़ा ऽसि धेनु-शूलादिवदिति । एतदुक्तं भवति जीवोपघातहेतुत्वाद् दुर्गतिफला एवं स्नानादयः कथं नु भवतारकास्ते भवेयुः, सूना वध्य भूम्यादीनामपि भवतारकत्वमसङ्गात् ? इति । इतश्च नद्यादितीर्थं भवतारकं न भवति, सूनाङ्गत्वात् सूनाप्रकारत्वात्, उदूखलादिवदिति । न च पुण्यकारणं स्नानम्, नापि यतिजनयोग्यं तत्, कामाङ्गत्वात्, मण्डनवत्; अन्यथा ताम्बूलभक्ष- पुष्पबन्धन-देहादिधूपना -ऽभ्यञ्जनादयोऽपि च भुजङ्गादीनां पुण्यहेतवः स्युः । न च देहतारणादिमात्रफलदर्शनेन विशिष्टं भवतारणादिकं फलमुपपद्यते, नियामकाभावात्, प्रत्यक्षवीक्षितप्राण्युपमदेवाधितत्वाच्च ; इत्यायभ्यूध स्वधियाऽत्र दोषजालमभिधानीयमिति ।। १०२९ ।। १०३० ॥
अथ परो ब्रूयात् किम् १, इत्याह
'देहोवगारि वा तेण तित्थमिह दाहनासणाईहिं । महु-मज्ज - मंस - वेस्सादओ वि तो तित्थमावन्नं ॥ १०३१॥
यदि प्रेरको मन्येत - जाह्नवीजलादिकं तीर्थमेव, दाहनाश-पिपासोपशमादिभिर्देहोपकारित्वात् । अत्रोच्यते एवं सति ततो मधु-मय-मांस- वेश्यादयोऽपि तीर्थमापद्यन्ते तेषामपि देहोपकारित्वाविशेषादिति । उक्तं द्रव्यतीर्थम् ।। १०३१ ॥
अथ भावतीर्थमाह
भावे तित्थं संघो सुविहियं तारओ तहिं साहू । नाणाइतियं तरणं तरियव्वं भवसमुद्दोऽयं ॥ १०३२ ॥ भावे भावविषयं श्रुतविहितं श्रुतप्रतिपादितं सङ्घस्तीर्थम्, तथा च भगवत्यामुक्तम्, ""तित्थं भंते ! तित्थं तित्थयरे तित्यं ? |
१. ग. 'पयुज्यते ।
२ भावे तीर्थ संघः श्रुतविहितं तारकस्तन्न साधुः । ज्ञानादित्रिकं तरणं तरयितव्यं भवसमुद्रः ॥ १०३२ ॥
३ तीर्थं भगवन् ! तीर्थं तीर्थंकरस्तीर्थम् । गौतम ! अर्हन्तस्तावद् नियमात् तीर्थङ्कराः, तीर्थ पुनश्चातुवर्णः श्रमणसंघः ।
देहोपकारि वा तेन तीर्थमिह दाहनाशनादिभिः । मधुमद्य-मांस- वेश्यादयोऽपि ततस्तीर्थमापन्नम् ॥ १०३१ ॥
For Personal and Private Use Only
बृहद्वृत्तिः ।
॥४७८॥
www.jainelibrary.org