________________
तेरिया तरणं तरियव्वं च सिद्धाणि, तारओ पुरिसो । वाहो-डुवाइ तरणं, तरणिजं निन्नयाईयं ॥१०२७॥ विशेषा. यद् यस्मात् तीर्यते दुस्तरं वस्तु तेन तमिस्ततो वेत्यतस्तीर्थमुच्यते । तच नाम-स्थापना-द्रव्य-भावभेदाच्चतुर्विधम् । तत्र नाम- बृत्तिः ।
स्थापने सुगमे । द्रव्ये द्रव्यभूतमप्रधानभूतं सरित-समुद्रादीनां निरपायः कोऽपि नियतो भागः प्रदेशस्तीर्थमुच्यते । तस्मिंश्च प्रसिद्ध ॥४७७॥
सिद्धे सत्यस्याऽऽपेक्षिकशब्दत्वादेतानि नियमात् सिध्यन्ति । कानि?, इत्याह- तरिता पुरुषः, तरणं वाहो डुपादि, तरणीयं तु निEE म्नगादिकमिति ॥ १०२७ ॥
कथं पुनरिदं द्रव्यतीर्थम् ?, इत्याह
'देहाइतारयं जं बज्झमलावणयणाइमत्तं च । णेगंताणचंतियफलं च तो दव्वतित्थं तं ॥ १०२८ ॥
यस्मादिदं देहादिकमेव द्रव्यमानं तारयति- नद्यादिपरकूलमात्र नयति, न पुनर्जीवं संसारसमुद्रस्य मोक्षलक्षणं परकूलं प्रापयति, अतोऽप्रधानत्वाद् द्रव्यतीर्थम् । तथा बाह्यमेव मलादिद्रव्यमात्रमपनयति, न त्वन्तरङ्ग प्राणातिपातादिजन्यकर्ममलम् । तथा, अनैकान्तिकफलमेवेदं नद्यादितीर्थम्- कदाचिदनेन नद्यादेस्तरणात् , कदाचित्तु तत्रैव मज्जनात् । तथा, अनात्यन्तिकफलं चेदम् , तथाहि- | एकदाऽनेन तीर्णमपि नद्यादिकं पुनरपि च तीर्यत इत्यनात्यन्तिकफलत्वम् । आत्मना वाऽस्य नद्यादितीर्थस्य द्रव्यमानत्वेनाऽप्रधानत्वात् सर्वत्र द्रव्यतीर्थत्वं भावनीयमिति ॥ १०२८ ॥
इह केषांचिद् मतमाशय परिहरनाहइह तारणाइफलयं ति ण्हाण-पाणा-ऽवगाहणाईहिं । भवतारयं ति केई तं नो जीवोवघायाओ॥ १०२९ ॥ सूणंगं पिव तमुदूहलं व न य पुण्हकारणं ण्हाणं । न य जइजोग्गं तं मंडणं व कामंगभावाओ ॥१०३०॥
१ तरीता तरणं तरयितव्यं च सिद्धानि, तारकः पुरुषः । वाहो-डुपादि तरणं, तरणीयं निम्नगादिकम् ॥ १.२७ ॥ २ देहादिसारकं यद् बाझमलापनयनादिमानं च । नैकान्ता-ऽऽत्यन्तिकफलं च तत्तो द्रव्यतीर्थ तत् ॥ १०२८ ॥ ३ क. ग. 'लमनै'। इह तारणादिफलकमिति स्नान-पाना-उवगाहनादिभिः । भक्तारकमिति केचित् तनो जीवोपवातात् ॥ १.२९॥ सूमागमपि वा तदुखलमिव नच पुण्यकारणं स्नानम् । स च यतियोग्यं तद् मण्डनमिव कामाभावात् ।। 10.॥
॥४७७॥
पटORE
Jan Education Internat
For Personal and
Use Only
RS