SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ विशेषा० ॥४७६॥ Jain Education Internatio विशेषमात्रं तच्छिष्यः सुखेन लघु च स्वयमपि ग्रहीष्यति । अतो लाघवार्थमिह दशकालिकादीनां ग्रहणमिति । १०२२ ॥ १०२३ ॥ अथोपसंहरंस्तात्पर्यमाह - म्हा जेण महत्थं सत्यं सव्वाणुओगविसयमिणं । सत्थंतरमेवहवा तेण पुणो मंगलग्गहणं ॥ १०२४ ॥ तस्माद् येन कारणेन सर्वानुयोगविषयत्वादिदमुपोद्वातलक्षणं शास्त्रं महार्थम्, अथवा, बहुवक्तव्यत्वाद् वस्तुतो यस्माच्छास्वान्तरमेवेदम्, न त्वावश्यकमात्रम्, तेनाऽस्यादौ पुनरपि मङ्गलग्रहणम् इत्येष स्थितः पक्षः । इत्येकादशगाथार्थः ।। १०२४ ॥ किं पुनस्तद् मङ्गलम् ?, इत्याह तित्थयरे भगवंते अणुत्तरपरक्कमे अभियनाणी । तिष्णे सुगइगइगए सिद्धिपहपएसए वंदे || १०२५ ॥ तीर्यते भवोदधिरनेन, अस्मात्, अस्मिन्निति वा तीर्थं वक्ष्यमाणस्वरूपम्, तत्करणशीलाः “कुंञो हेतुताच्छील्ये०” इत्यादिना त्यये तीर्थकराः, तान् वन्दे, इति संबन्धः । कथंभूतान् १, इत्याह- भगः समत्रैश्वर्यादिलक्षणो विद्यते येषां ते भगवन्तोऽर्हन्तस्तान् भगवतः । पुनरपि कथंभूतान् ?, इत्याह- अनुत्तरपराक्रमानिति पराक्रमो वीर्य, तदनन्तत्वादनुत्तरं येषाम् ; अथवा परेषां क्रोधादिशत्रूणामाक्रमणं विक्षेपणं पराक्रमः सोऽनुत्तरः प्रधानरूपो येषां तेऽनुत्तरपराक्रमास्तानिति । तथा, अनन्तज्ञेयपरिच्छेदादमितमपरिमितं केवलरूपं ज्ञानं येषां तेऽमितज्ञानिनस्तानिति । तथा, तरन्ति स्म भवार्णवमिति तीर्णास्तानिति । तीर्त्वा च भवजलधिं सुगतिगतिगतानिति, तत्र राग-द्वेषविकलत्व- सर्वज्ञत्व-सर्वदर्शित्वादिभ्यो निरुपमसुखभागिनः सुगतयः सिद्धास्तैरेव गम्यमानत्वाद् गतिः सिद्धिस्तां गताः सुगतिगतिगतास्तानिति । तथा, तस्या एव सिद्धेः पन्थाः सम्यग्दर्शन- ज्ञानादिको मार्गस्तस्य प्रकृष्टा देशकाः सिद्धिपथप्रदेशकास्तान् वन्देऽभिवादये स्तौमि ।। इति निर्मुक्तिगाथासंक्षेपार्थः ।। १०२५ ॥ विस्तरार्थं तु विभणिषुर्भाव्यकार एवाह "तिज्जइ जं तेण तहिं तओ व तित्थं तयं च दव्वम्मि । सरियाईणं भागो निरखायो, तम्मि य पसिद्धे ॥ १०२६॥ १ तस्माद् येन महार्थं शास्त्रं सर्वामुयोगविषयमिदम् । शाखान्तरमेवाऽथवा तेन पुनर्मङ्गलग्रहणम् ॥ १०२४ ॥ २ तीर्थकरान् भगवतोऽनुचरपराक्रमाममितज्ञानान् । तीर्णाम् सुगतिगतिगतान् सिद्धिपथप्रदेशकान् वन्दे ॥ १०५ ॥ ३ पाणिनीये ||३||२०| ४ तीर्थते यत् तेन तन ततो वा तीर्थं तच्च द्रव्ये । सरिदादिक भागो निश्पायः तस्मिंश्च प्रसिद्धे ॥ १०२६ ॥ For Personal and Private Use Only बृहद्वृत्तिः ! ॥४७६॥ Late www.jainelltrary.org
SR No.600164
Book TitleVisheshavashyak Bhashya Part 03
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages202
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy