________________
विशेषा.
॥४७५॥
S
'आभिणिबोहियनाणं' इत्यादिना यदादौ मङ्गलं कृतम् , यच्च 'सर्वमपि शास्त्रमेतद् मङ्गलात्मकर्मवेत्युक्तम् , यदपि च शिष्यो मङ्गलत्रयमतिपरिग्रहं कारितः, तदेतत् सर्वमावश्यकस्य कृतम् । इदं तु यस्याऽऽरम्भे प्रस्तुतं मङ्गलं क्रियमाणमास्ते, तद् नावश्यकमात्रम् , किन्तु सर्वेषामपि सिद्धान्तशास्त्राणां योऽयमनुयोगस्तत्संबद्धा येयमुपोद्धातनियुक्तिः, तल्लक्षणं यद् वस्तुतोऽन्यत् शास्त्रं तत्प्रारम्भ एवाऽयम् । तस्य चोपोद्वातनियुक्तिशास्त्रस्य सकलसिद्धान्तव्यापकत्वेन महार्थत्वादविघ्नसंपादनायेदं मङ्गलमिति ॥ १०२०॥
आह- कुतः पुनरेतदवसीयते, यत्सर्वानुयोगनियुक्तिशास्त्रपारम्भोऽयम् ?, इत्याहदेसकालियाइनिज्जुत्तिगहणओ भणियमुपरि वा जं च । सेसेसु वि अज्झयणेसु होइ एसेव निज्जुत्ती ॥१०२१॥
'आवस्सयस्स दसकालियस्स तह उत्तरज्झमायारे' इत्याद्यनन्तरवक्ष्यमाणग्रन्थे यद् दशकालिकादिनियुक्तिग्रहणं करिष्यति तस्माद्, यदि वा यदुपरिष्टादिहैवाग्रे वक्ष्यति- शेषेष्वपि चतुर्विंशतिस्तवादिषु निःशेषसिद्धान्तगतेषु चाध्ययनेष्वेषैवोपोद्धातनियुक्तिर्भवतीति । एतस्माचैतज्ज्ञायते, यत्सर्वानुयोगनियुक्तिशास्त्रारम्भोऽयमिति ॥ १०२१ ॥
अत्राप्याह प्रेरकःसामाइयवक्खाणे दसालियाईण कोऽहिगारोऽयं । जं पायमुवग्याओ तेसिं सामन्न एवायं ॥१०२२ ॥ इह तेसिं तम्मि गए वीसुं वीसुं विसेसमित्तोऽयं । घिच्छिइ सुहं लहुं चिय तग्गहणं लाघवत्थमओ ॥१०२३॥
ननु सामायिकाध्ययनस्येह व्याख्याने प्रस्तुते को हि दशकालिकादीनां ग्रहणेऽवसरः । अत्रोच्यते- यद् यस्मादयमुपोद्धातः प्रायस्तेषामपि दशकालिकादीनां सामान्य एव- समानवक्तव्यतारूप एव । अत उपोद्घातसामान्यात् तेषामपीह ग्रहणम् । प्रायोग्रहणात् सामायिकस्य तीर्थकराद् निर्गमः, दशकालिकस्य शय्यंभवात् , उत्तराध्ययनानां तीर्थकरादिनानामहर्षिभ्यो निर्गम इत्यादिविशेषोऽपि कश्चिदल्पो द्रष्टव्यः । ततश्चेह तेषां दशकालिकादीनां तस्मिन् सामान्ये उपोद्घाते गतेऽवगतेऽवबुद्धे यत् पृथक् पृथग् निर्गमादिकं किमपि
१ गाथा ७९ । २ दशकालिकादिनियुक्तिग्रहणतो भणितमुपरि वा यच । शेषेष्वप्यध्ययनेषु भवत्येषापि नियुक्तिः ॥ १.२१॥ ३ गाथा १०७४ ।
सामायिकव्याख्याने दशकालिकादीनां कोऽधिकारोऽयम् । यप्राय उपोद्घातस्तेषां सामान्य एवाऽयम् ॥ १०२२ ॥ इह तेषां तस्मिन् गते विष्वग् विष्वग् विशेषमात्रोऽयम् । ग्रहीष्यति सुखं लम्वेव तमहणं हाघवार्थमतः ॥ १०२३ ॥
॥४७५॥
Jan Education Intema
For Dev
enty