SearchBrowseAboutContactDonate
Page Preview
Page 76
Loading...
Download File
Download File
Page Text
________________ विशेषा० ॥४७४|| उपक्रमादीनि चत्वार्यनुयोगद्वाराणि यस्य तच्चतुरनुयोगद्वारं यतः शास्त्रम् , तेनोपक्रम-निक्षेपलक्षणमनुयोगद्वारद्वयमतिक्रम्य यदिदमनुगमभेदात्मकस्योपोद्घातस्यादौ मङ्गलं तद् युक्तित एव मध्यमङ्गल भवति । यच्च शास्त्रेऽनारब्धेऽप्यनुयोगद्वारमध्ये मङ्गलग्रहणं तदेव साधयति' कथयति ज्ञापयति यदुत-शास्त्रस्याङ्गानि शास्त्रस्वरूपभूतान्येवाऽनुयोगद्वाराणि, न पुनस्ततो भिन्नानि, अतस्तदारम्भे शास्त्रमारब्धमेव मन्तव्यम् । ततः शास्त्रस्यैवेदं मध्यमङ्गलमिति स्थितम् ॥ १०१७ ॥ इत्याचार्यदेशीयेनोक्ते मूरिराह तेहवि न मज्झं एयं भणियमिहावस्सयस्स जं मज्झं । तं मंगलमाइटें इदमज्झयणस्स होजाहि॥१.१८॥ तथापि भवदुक्तयुक्त्यापि नैतद् मध्यं भणितं- नैतद् मध्यमुपपद्यते, किन्त्विह षडध्ययनात्मकस्याऽऽवश्यकस्य यद् मध्यं तत्पूर्वमादावेव भाष्यकृता मङ्गलमादिष्टं मध्यमङ्गलत्वेन प्रतिपादितम् , इदं त्वावश्यकमध्यं न भवत्येव, किन्तु भवदभिहितयुक्त्या यदि भवति तदा प्रथमस्य सामायिकाध्ययनस्यैतद् मध्यं भवेदपीति ॥ १.१८॥ सूरिरेवाह, किञ्च भैणियं च पुव्वमेयं सव्वं चियमंगलं ति किमणेण ?। मंगलं ति य बुद्धिपरिग्गहं पि कारावियो सीसो॥१०१९॥ भणितं चेदमादौ- सर्वमेवैतच्छास्त्रं मङ्गलरूपमेव, तत्किमनेन विशेषतो मध्यादिमङ्गलकरणप्रयासेन ? । अथैवं ब्रूपे- समस्तशा-18 स्त्रस्य मङ्गलरूपत्वेऽपि शिष्यस्य मालत्रयमतिपरिग्रहार्थो यत्नः । तदपि न, यस्मात् शिष्योऽपि मङ्गलत्रयमतेः परिग्रहं प्रागेव कारिता, इति किमनेन ? ॥१०१९॥ अथाचार्यदेशीयो निरुत्तरीकृतो विलक्षः सन् पाह- ननु यदि सर्वमप्येतच्छास्त्रं मङ्गलम् , मङ्गलत्रयमतिपरिग्रहं च प्रागेव कारितः शिष्यः, अतो नेदं मध्यमङ्गलम् , तर्हि भवन्तोऽपि कथयन्तु-किमर्थमिदं मङ्गलम् ?, इत्याशङ्कय मूरियथावस्थितं समाधानमाह आवस्सयस तं कयमिदं तु नावासमित्तयं किंतु । सव्वाणुओगनिज्जुत्तिसंत्थपारंभ एवायं ॥ १०२० ॥ १ क.ग. 'यच्छाख्ने । २ क.ग. "ति ज्ञा' । ३ तथापि न मध्यमेतद् भणितमिहावश्यकस्य यद् मध्यम् । तद् मङ्गलमादिष्टमिदमध्ययनस्य भवेत् ॥ १.१८॥ ४ भणितं च पूर्वमेतत् सर्वमेव मङ्गलमिति किमनेन । मङ्गलमिति च बुद्धिपरिग्रहमपि कारितः शिष्यः ॥ १०१९॥ ५ आवश्यकस्य तत्कृतमिदं तु नावश्यकमात्रक किन्तुं । सर्वानुयोगनियुक्तिशाखप्रारम्भ एवाऽयम् ॥ १०२०॥ ६ क.ग. 'सत्योपा' । TeamelessocieRSSORE ॥৪৩৪ll Jan Education Internat For Personal and Private Use Only www.jaineltrary.ary
SR No.600164
Book TitleVisheshavashyak Bhashya Part 03
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages202
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy