________________
बृहद्वृत्तिः।
विशेषा० ॥४७३॥
अर्थानुगमेऽर्थानुगमाख्ये तृतीयेऽनुयोगद्वारे 'उद्देसे निद्देसे य निग्गमे इत्यादिना यः पूर्व संक्षेपेण शास्त्रस्योपोद्धात उक्तः, तस्यैव सांप्रतमहं विस्तरं वक्ष्ये । कथंभूतः सन् ?, इत्याह- कृतमङ्गलोपचारः कृततीर्थकरादिनमस्कारः सन् । किम् ?, इत्याह- समस्तसिद्धा- न्तानुयोगसाधारणत्वात् सोऽतिमहार्थ इति कृत्वा ॥१०१४ ॥
अत्र प्रेरकः प्राह
नेणु मंगलं कयं चिय किं भुजो, अह कयं पि कायव्वं । दारे दारे कीरइ तो कीस न मंगलग्गहणं? ॥१०१५॥
नन्वादौ 'आभिणिबोहियनाणं' इत्यादिना मङ्गलं कृतमेव, तत् किमिति भूयस्तदारम्भः । अथ कृतमपि पुनः कर्तव्यं तत् , तर्हि प्रत्यध्ययनम् , प्रत्युद्देशकम् , प्रतिसूत्रं च द्वारे द्वारे उपक्रमादिके किमिति न मङ्गलग्रहणं क्रियते ? इति ॥ १०१५॥
अत्र कश्चिदाचार्यदेशीयोऽन्तरभाषया प्रतिविधानमाह
नणु मज्झम्मि वि मंगलमाइ8 तं च मज्झमेयं ति । सत्थमणारखं चिय एवं कत्वोच्चयं मज्झं? ॥१.१६॥
ननु शास्त्रस्यादौ, मध्ये, अवसाने च मङ्गलं कर्तव्यत्वेन पूर्वमूरिभिरादिष्टम् , तत्रादौ विहितं मङ्गलम् । एतच्च शास्त्रस्य मध्यम् , ततो मध्यमङ्गलमत्र कर्तव्यमेव, किमनेन प्रेर्येण ? इति । तदेतदुत्तरमयुक्तमेव, इत्याचार्यो दर्शयति- 'सत्यमित्यादि नन्वादिमङ्गलार्थ नन्दिरुक्तः, ततोऽनुयोगद्वाराण्यभिहितानि, यत्तु सामायिकाध्ययनलक्षणं शास्त्रं तदनारब्धमेव, तस्याऽद्याप्यक्षरमपि न व्याख्यायते, कौतस्त्यं पुनस्तन्मध्यं, येन मध्यमङ्गलताऽस्य भवेत् ? इति ॥ १०१६ ॥
अत्राचार्यदेशीय एव शास्त्रस्य मध्यतां समर्थयन्नाहचउरणुओगद्दारं जं सत्थं तस्स तेण मज्झमिणं । साहइ मंगलगहणं सत्थरसंगाइं दाराणि ॥ १.१७ ॥
TATARRATANGABARTAM
A
NRAMBABA
१ गाथा ९७३। २ ननु मङ्गलं कृतमेव किं भूयः, अथ कृतमपि कर्तव्यम् । द्वारे द्वारे क्रियते ततः कस्माद् न मङ्गलग्रहणम् ? ॥१०१५॥ ३ गाथा ७९ । ननु मध्येऽपि मङ्गलमादिष्टं तच्च मध्यमेतदिति । शास्त्रमनारब्धमेवैतत् कौतस्त्वं मभ्यम् ॥ १.१६ ॥ ५ क.ग. 'लमेव त'। ६ घ.छ. 'आचा'। • चतुरनुयोगद्वारं यत् शास्त्रं तस्य तेन मध्यमिदम् । कथयति मालग्रहणं शास्त्रस्यानानि द्वाराणि ॥ १० ॥ .
४७३॥
६०
Jan Education interna
For Personal and Private Use Only
www.jainelibrary.org