________________
विशेषा ०
॥४७२॥
Jain Education Internati
इति पूर्वगाथायां प्रायोग्रहणमकारि । कस्मात् पुनः पदविच्छेदोऽपि तद्विषयः १, इत्याह-- येन कारणेन तेषां विच्छिन्नपदानामर्थस्तदर्थस्तस्य, तथा, कारक-काल-क्रियादीनां च गतिरवबोधस्तत एव पदच्छेदमात्रादेव जायते । ततस्तत्र पदविच्छेदमात्रमेव सूत्रस्पर्शिकनिर्युक्तिः करोति तावतैव तद्व्यापारपरिसमाप्तेः । अतः पदच्छेदोऽपि तदन्तर्भाव्येव । उपलक्षणं चैतत्, ततो न केवलं पदार्थादिरेव नैगमादिनयविषयः, किन्तु पदच्छेद- सूत्रालापकन्यासादयोऽपि प्रायस्तद्विषयः, तत्रापि तद्विचारप्रवृत्तेरिति । तदेवमुक्तोऽनुगमः, तद्भणनप्रसङ्गतो नया चाभिहिताः । तथा च समाप्तान्यनुयोगद्वाराणि ।। १०११ ॥
अत आह—
अणुओगद्दाराणं परूवणं तप्पओयणं जं च । इह चेव परिसमाणियमव्यामोहत्थमत्थाणे ॥ १०१२ ॥ यद्यप्यध्ययन समाप्तावेवाऽनुयोगद्वाराणां सामस्त्येन समाप्तिरिष्यते, तथापि यच्चतुर्णामप्यनुयोगद्वाराणां प्ररूपणम् यच्च तत्मयोजनम्, तदिहाऽऽदावस्थान एव शिष्याणामव्यामोहार्थं परिसमापितम् । अन्यथा ह्यध्ययनस्याऽऽदावुपक्रमः समाप्येत, ततो दूरव्यवधानेन कचिद् निक्षेपः, काप्यनुगमः, कचित्तु नयाः परिसमाप्येरन् । एवं चातिग्रन्थव्यवधानेनाऽनुयोगद्वाराणां समाप्तौ व्यामुयुर्विनेयाः ।। १०१२
कथं पुनरित्थं समाप्तौ तेषामव्यामोहः १, इत्याह
दाइयदारविभागो संखेवेणेह, वित्थरेणावि । दाराणं विणिओगं नाहिइ काउं जहाजोगं ॥ १०१३ ॥ इहैव संक्षेपेण दर्शितानुयोगद्वारविभागो विनेयः पुरस्ताद् विस्तरेणापि यथायोग्यं यथास्थानं स्वयमेव ज्ञास्यति विनियोगं कर्तुम्, न तु मोहमनुभविष्यति ।। इति त्रयोदशगाथार्थः ॥ १०१३ ॥
॥ अनुयोगद्वाराणि समाप्तानि ॥ इदानीं 'तित्थयरे भगवंते' इत्यादिवक्ष्यमाणग्रन्थस्य प्रस्तावनामुपरचयन्नाह— संपयमत्थाणुगमे सत्थोवग्धायवित्थरं वोच्छं । कयमंगलोवयारो सोऽतिमहत्यो त्ति काऊणं ॥ १०१४ ॥
१ अनुयोगद्वाराणां प्ररूपणं तत्प्रयोजनं यच्च । इहैव परिसमापितमव्यामोहार्थमस्थाने ॥ १०१२ ॥ १३ दर्शितद्वारविभागः संक्षेपेणेह विस्तरेणापि द्वाराणां विनियोगं ज्ञास्यति कर्तुं यथायोगम् ॥ १०१३ ॥ ५ सांप्रतमर्थानुगमे शास्त्रोपोद्वातविस्तरं वक्ष्ये । कृतंमङ्गलोपचारः सोऽतिमहार्थ इति कृत्वा ॥ १०१४ ॥
For Personal and Private Use Only
२ क. ग. 'रितीष्य' । ४ गाथा १०२५
बृहद्वृत्तिः ।
॥४७२॥
www.jainelibrary.org