________________
विशेषा० ૪૮૪
PANDROTलमान
अत्रोत्तरमाहएवं तु दव्वतित्थं भावे दुक्खं हियं लभइ जीवो । मिच्छत्त-ऽन्नाणा-ऽविरइ-विसयसुहभावणाणुगओ ॥१०४३ ॥ पडिवण्णो उण कम्माणुभावओ भावओ परमसुद्ध। किह मोच्छिइ जाणतो परमहियं दुल्लहं च पुणो ॥१०४४॥
सत्यम् , द्रव्यतीर्थमेवमेवेष्यते यथैव त्वं ब्रूषे, तस्य सुखप्राप्यत्वात् , सुखेनैव च मुच्यमानत्वादिति । भावतीर्थ तु नैवम् , तस्य मोक्षहेतुत्वेन जीवानां परमहितत्वात् । यच्च मोक्षहेतुत्वेन हितं, तद् दुःखं लभते जीवः- महता कष्टेन तत् जीवः प्रामोतीत्यर्थः । कथंभूतो यस्मादेष जीवः ?, इत्याह- 'मिच्छत्तेत्यादि' यस्मादनादिकालालीनमिथ्यात्वा-ज्ञाना-ऽविरति-विषयसुखभावनानुगतो जीवः, तस्मादित्थंभूतस्य जीवस्याऽनन्तसंसारदुःखव्यवच्छेदहेतुत्वाद् निःसीमनिःश्रेयसावाप्तिनिवन्धनत्वाच परमहितं भावतीर्थमतिदुरवापत्वात् पूर्वोक्तकष्टानुष्ठानयुक्तत्वाच दुःखावतारम् , तथा, दुरुत्तारं च । कुतः१, इत्याह- 'पडिवण्णो इत्यादि' शुभकर्मपरिणत्यनुभावतः पुनः कथमपि परमशुद्ध भावतीर्थ भावतः परमार्थतः प्रतिपन्नो जीवः 'परमहितं दुर्लभं च पुनरपि एतज्जानन्नपि कथं नु नाम तद् मोक्ष्यति ?कथं तत उत्तरिष्यति ?- च कथञ्चिदित्यर्थः। अतो दुरुत्तारता तस्येति । किञ्च, सद्वैद्यप्रयुक्तकर्कशक्रियोदाहरणतश्च भावतीर्थस्य दुःखावतारो-तारता भावनीया ॥ १०४३ ॥ १०४४ ॥
कथम् , इत्याह
अइकक्खडं व किरियं रोगी दुक्खं पवज्जए पढमं । पडिवन्नो रोगक्खयमिच्छंतो मुंचए दुःखं ॥१०४५॥ इय कम्मवाहिगहिओ संजमकिरियं पवजए दुक्खं । पडिवन्नो कम्मक्खयमिच्छंतो मुंचए दुक्खं ॥१०४६॥ गाथाद्वयमपि सुबोधम् ॥ १०४५॥ १०४६॥
१ एवं तु द्रव्यतीर्थ भावे दुःखं हितं लभते जीवः । मिथ्यात्वा-ज्ञाना-विरति-विषयसुखभावनानुगतः ॥ १०४३॥
प्रतिपक्षः पुनः कर्मानुभावतो भावतः परमशुद्धम् । कथं मोक्ष्यति जानन् परमहितं दुर्लभं च पुनः ॥ १०४४ ॥ २ अतिकर्कशां वा क्रिया रोगी दुःखं प्रपचते प्रथमम् । प्रतिपन्नो रोगक्षयमिच्छन् मुञ्चते दुःखम् ॥ १०४५॥ इति कर्मच्याधिगृहीतः संयमक्रियां प्रपद्यते दुःखम् । प्रतिपन्नः कर्मक्षयमिच्छन् मुञ्चते दुःखम् ॥ १०४६ ॥
॥४८४॥
JanEducationainternational
For sale
Use Only