Book Title: Visheshavashyak Bhashya Part 03
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah

View full book text
Previous | Next

Page 111
________________ विशेषा ॥५०९| अङ्गा-ऽनङ्गादिविभागेन विरचितमेव सूत्रं प्रसिद्धम् , अयं तु मातृकापदत्रयरूपः शब्दो येन कारणेनाऽङ्गादिविभागेन या मूत्ररचना तन्निरपेक्षस्तत्समुदायार्थरूपत्वेन तद्वहिर्भूत इत्यतः सोऽर्थ इति व्यपदिश्यते । अथवा, शेषस्य गणधरापेक्षयाऽन्यस्य संघरूपस्य प्रवचनस्य यः सुखग्रहण-धारणादिभ्यो हितः शब्दराशिः स एव सूत्रतया प्रोक्तः । अयं तु मातृकापदत्रयरूपः शब्दो न शेषप्रवचनस्येत्थं हितः, यथेदं द्वादशाङ्गम् , अतो नासौ मूत्रम्, किन्वर्थ इति । तत्पुनः शब्दजालं शेषप्रवचनस्य हितमेव । यत् किम् ?, इत्याह- यत् | सुखग्रहणादिकारणेभ्यो द्वादशधा- आचारादिद्वादशभेदं गणधरेभ्यः प्रवर्तते । अतस्तदेव सूत्रम्, मातृकापदत्रयं त्वर्थ इति स्थितम् । अथ "निउणं' इति नियुक्तिगाथावयवस्यार्थमाह- तदाचारादिकं द्वादशविधं सूत्रं कथम्भूतम् ?, निपुणं मूक्ष्मम् , सूक्ष्मार्थप्रतिपादकत्वात् । महानपरिमितोऽर्थो यस्मिंस्तद् महार्थं च निपुणमिति ॥ ११२३ ॥ ११२४ ॥ अर्थान्तरमाहनिययगुणं वा निउणं निदोसंगणहराऽहवा निउणा । तं पुण किमाइ-पजंतमाणमह को व से सारो ?॥११२५॥ अथवा, नियतगुणं निश्चितगुणं निगुणं संनिहितसमस्तसूत्रगुणत्वाद् निर्दोषमित्यर्थः । 'निउणा' इति पाठान्तरे गणधरा विशेप्यन्ते-निपुणाः, सूक्ष्मार्थदर्शित्वात् , निगुणा वा गणधराः, संनिहितसमस्तगुणत्वादित्यर्थः । वक्ष्यमाणनियुक्तिगाथायाः प्रस्तावनामाहतत् पुनः श्रुतं किमादि ?, किंपर्यन्तमान- कियत्परिमाणम् ?, को वाऽस्य सारः ।। इति गाथाषद्कार्थः ॥ ११२५ ॥ अनन्तरपृष्टस्यैवोत्तरमाह सामाइयमाईयं सुयनाणं जाव बिंदुसाराओ। तस्स वि सारो चरणं सारो चरणस्स निव्वाणं ॥ ११२६ ॥ .. तच्च श्रुतज्ञानं सामायिकादि वर्तते, चरणप्रतिपत्तिकाले सामायिकस्यवादी प्रदानात् । यावद् बिन्दुसारादिति बिन्दुसाराभिधानचतुर्दशपूर्वपर्यन्तमित्यर्थः, यावच्छब्दादेव च द्वय-ऽनेक-द्वादशपरिमाणं तद् वेदितव्यम् । तस्यापि श्रुतज्ञानस्य सारश्चरणम् । सारशब्दोऽत्र प्रधानवचनः, फलवचनश्च मन्तव्यः; तस्मादपि श्रुतज्ञानाचारित्रं प्रधानम् , तस्य फलं च तदित्यर्थः। अपिशब्दात् सम्यक्त्वस्यापि सारश्चरणमेव । अथवा, अपिशब्दस्य व्यवहितः संवन्धः, तस्य श्रुतज्ञानस्य सारश्वरणमपि, अपिशब्दाद् निर्वाणमपीत्यर्थः, अन्यथा १ गाथा १११९। २ नियतगुणं वा निपुर्ण निर्दोष गणधरा अथवा निपुणाः । तत्पुनः किमादि-पर्यन्तमानमथ को वा तस्य सारः ॥ ११२५ ॥ ३ क. ग. 'श्रुतज्ञानं कि' । ४ सामायिकादिकं श्रुतज्ञानं यावद् बिन्दुसारात् । तस्यापि सारश्चरणं सारश्चरणस्य निर्वाणम् ॥ ११२६ ॥ ॥५०९॥ ASE For Personal and Private Use Only N u mbainelibrary.org

Loading...

Page Navigation
1 ... 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202