________________
विशेषा
॥५०९|
अङ्गा-ऽनङ्गादिविभागेन विरचितमेव सूत्रं प्रसिद्धम् , अयं तु मातृकापदत्रयरूपः शब्दो येन कारणेनाऽङ्गादिविभागेन या मूत्ररचना तन्निरपेक्षस्तत्समुदायार्थरूपत्वेन तद्वहिर्भूत इत्यतः सोऽर्थ इति व्यपदिश्यते । अथवा, शेषस्य गणधरापेक्षयाऽन्यस्य संघरूपस्य प्रवचनस्य यः सुखग्रहण-धारणादिभ्यो हितः शब्दराशिः स एव सूत्रतया प्रोक्तः । अयं तु मातृकापदत्रयरूपः शब्दो न शेषप्रवचनस्येत्थं हितः, यथेदं द्वादशाङ्गम् , अतो नासौ मूत्रम्, किन्वर्थ इति । तत्पुनः शब्दजालं शेषप्रवचनस्य हितमेव । यत् किम् ?, इत्याह- यत् | सुखग्रहणादिकारणेभ्यो द्वादशधा- आचारादिद्वादशभेदं गणधरेभ्यः प्रवर्तते । अतस्तदेव सूत्रम्, मातृकापदत्रयं त्वर्थ इति स्थितम् ।
अथ "निउणं' इति नियुक्तिगाथावयवस्यार्थमाह- तदाचारादिकं द्वादशविधं सूत्रं कथम्भूतम् ?, निपुणं मूक्ष्मम् , सूक्ष्मार्थप्रतिपादकत्वात् । महानपरिमितोऽर्थो यस्मिंस्तद् महार्थं च निपुणमिति ॥ ११२३ ॥ ११२४ ॥
अर्थान्तरमाहनिययगुणं वा निउणं निदोसंगणहराऽहवा निउणा । तं पुण किमाइ-पजंतमाणमह को व से सारो ?॥११२५॥
अथवा, नियतगुणं निश्चितगुणं निगुणं संनिहितसमस्तसूत्रगुणत्वाद् निर्दोषमित्यर्थः । 'निउणा' इति पाठान्तरे गणधरा विशेप्यन्ते-निपुणाः, सूक्ष्मार्थदर्शित्वात् , निगुणा वा गणधराः, संनिहितसमस्तगुणत्वादित्यर्थः । वक्ष्यमाणनियुक्तिगाथायाः प्रस्तावनामाहतत् पुनः श्रुतं किमादि ?, किंपर्यन्तमान- कियत्परिमाणम् ?, को वाऽस्य सारः ।। इति गाथाषद्कार्थः ॥ ११२५ ॥
अनन्तरपृष्टस्यैवोत्तरमाह
सामाइयमाईयं सुयनाणं जाव बिंदुसाराओ। तस्स वि सारो चरणं सारो चरणस्स निव्वाणं ॥ ११२६ ॥ ..
तच्च श्रुतज्ञानं सामायिकादि वर्तते, चरणप्रतिपत्तिकाले सामायिकस्यवादी प्रदानात् । यावद् बिन्दुसारादिति बिन्दुसाराभिधानचतुर्दशपूर्वपर्यन्तमित्यर्थः, यावच्छब्दादेव च द्वय-ऽनेक-द्वादशपरिमाणं तद् वेदितव्यम् । तस्यापि श्रुतज्ञानस्य सारश्चरणम् । सारशब्दोऽत्र प्रधानवचनः, फलवचनश्च मन्तव्यः; तस्मादपि श्रुतज्ञानाचारित्रं प्रधानम् , तस्य फलं च तदित्यर्थः। अपिशब्दात् सम्यक्त्वस्यापि सारश्चरणमेव । अथवा, अपिशब्दस्य व्यवहितः संवन्धः, तस्य श्रुतज्ञानस्य सारश्वरणमपि, अपिशब्दाद् निर्वाणमपीत्यर्थः, अन्यथा
१ गाथा १११९। २ नियतगुणं वा निपुर्ण निर्दोष गणधरा अथवा निपुणाः । तत्पुनः किमादि-पर्यन्तमानमथ को वा तस्य सारः ॥ ११२५ ॥ ३ क. ग. 'श्रुतज्ञानं कि' । ४ सामायिकादिकं श्रुतज्ञानं यावद् बिन्दुसारात् । तस्यापि सारश्चरणं सारश्चरणस्य निर्वाणम् ॥ ११२६ ॥
॥५०९॥
ASE
For Personal and Private Use Only
N
u
mbainelibrary.org