________________
विशेषा०
बृहद्वत्तिः ।
॥५१०॥
ज्ञानस्य निर्वाणहेतुत्वं न स्यात् , किन्तु चरणस्यैव ज्ञानरहितस्यापि तत् स्यात , अनिष्टं चैतत् , “सम्यग्दर्शन-ज्ञान-चारित्राणि मोक्षमार्गः" तथा, "नाण-किरियाहिं मोक्खो" इत्यादिवचनादिति । इह तु ज्ञान-चरणयोः समानेऽपि निर्वाणहेतुत्वे गुण-प्रधानभावख्यापनार्थमित्थमुपन्यासः 'तस्स वि सारो चरण' इति । 'सारो चरणस्स निव्वाणं ति' अत्र सारशब्दः फलवचनः, चरणस्य संयम-तपोरूपस्य सारः फलं निर्वाणमित्यर्थः । इहापि शैलेश्यवस्थाभाविसर्वसंवररूपचारित्रमन्तरेण निर्वाणस्याऽभावात् , तनावे चावश्यंभावादित्थमुक्तम् , अन्यथा सम्यग्दर्शनादित्रयस्य समुदितस्यैव निर्वाणहेतुत्वमवगन्तव्यम् , शैलेश्यवस्थायामपि क्षायिकदर्शन-ज्ञानयोरवश्यं सद्भावात् ।। इति नियुक्तिगाथार्थः ॥११२६ ॥
तदेवं तं पुण किमाइ-पजन्तमाणमह को व से सारो' इत्यनया प्रागुक्तसामान्यतया समायातं व्याख्यातं 'तस्स वि सारो चरणं' इति गाथादलम् । साम्प्रतं त्वस्य पातनान्तरमाह
सोउं सुयण्णवं वा दुग्गेझं सारमेत्तमेयस्स । घेच्छं तयं ति पुच्छइ सीसो चरणं गुरू भणइ ॥११२७॥
'वा' इत्यथवा पातनान्तरसूचकः । 'सोउं ति' सामायिकादि बिन्दुसारपर्यन्तं श्रुतार्णवं दुर्ग्राह्यमतिदुस्तरं श्रुत्वा 'यदि समस्तमपि तं ग्रहीतुं न शक्ष्यामि, तर्हि सारमात्रमस्य श्रुतार्णवस्य ग्रहीष्यामि' इति सश्चिन्त्य शिष्यस्तत्सारमात्रं पृच्छति-'कोऽस्य द्वादशाङ्गस्य सारः ?' इति सोपस्कारमिह व्याख्येयम् । तत्र गुरुर्भणति- तस्यापि श्रुतज्ञानस्य सारश्चरणमिति । एतत्पुनरपृष्टेनापि गुरुणा नियुक्तिगाथान्ते प्रोक्तम्- सारश्चरणस्य निर्वाणमिति ॥ ११२७॥
अथ प्रेरकः प्राहअन्नाणओ हय त्तिय किरिया नाण-किरियाहिं निव्वाणं । भणियं तो किह चरणं सारो नाणस्स तमसारो ?॥११२८॥
ननु 'हयं नाणं कियाहीणं हया अन्नाणओ किया' इत्यादिवचनादज्ञानतो हतैव क्रिया, इति ज्ञान-क्रियाभ्यां समुदिताभ्यामेव निर्वाणमागमे भणितम्- अनेकस्थानेषु प्रतिपादितम् । ततः कथं ज्ञानस्य सारश्चरणम् , तत्तु ज्ञानमसारः इति ॥ ११२८ ।।
१ तत्वार्थाधिगमसूत्रे १,१ । २ ज्ञान-क्रियाभ्यां मोक्षः । ३ गाथा ११२५ । · श्रुत्वा श्रुतार्णवं वा दुहं सारमात्रमेतस्य । ग्रहीष्यामि तदिति पृच्छति शिष्यश्चरणं गुरुर्भणति ॥ १२॥ ५ अज्ञानतो हतेति च क्रिया ज्ञान-क्रियाभ्यां निर्वाणम् । भणितं ततः कथं चरणं सारो ज्ञानस्य तदसारः ॥ ११२८ ॥ ६ गाथा ११५९ ।
५१०॥
For Pearl Pe Use