________________
विशेषा०
बृहद्वत्तिः ।
॥५१॥
अत्रोत्तरमाह
चरणोवलद्धिहेऊ जं नाणं चरणओ य निव्वाणं । सारो त्ति तेण चरणं पहाण-गुणभावओ भणियं ॥११२९॥ नाणं पयासयं वि गुत्ति-विसुद्धिफलं च जं चरणं । मोक्खो य दुगाहीणो चरणं नाणस्स तो सारो ॥११३०॥
यद् यस्माद् मति-श्रुतादिकं ज्ञानं चरणोपलब्धेश्चारित्रप्राप्तेरेव मुख्य कारणम् , ज्ञानं विना चरणविषयस्य जीवा-जीवादेईयोपादेयादेश्च वस्तुनोऽपरिज्ञानात् , अपरिज्ञातस्य च यथावत् कर्तुमशक्यत्वात् । चरणाच्च तपःसंयमरूपाद् निर्वाणमुपजायते । अतो निर्वाणस्य सर्वसंवररूपं चरणमेव मुख्यं प्रधान कारणम् , ज्ञानं तु कारणकारणत्वाद् गौणं तस्य कारणम् । अतस्तेन कारणेन प्रधानगुणभावाज्ज्ञानस्य सारश्चरणं भणितम् ।
प्रधान-गुणभावमेव भावयति- 'नाणमित्यादि' ज्ञानं यस्मात् कृत्या-ऽकृत्यादिवस्तुनः प्रकाशकमेव वस्तुपरिज्ञानमात्रे व्याप्रियत इत्यर्थः । चरणं पुनर्गुप्ति-विशुद्धिफलम्-गुप्तिः संवरः, विशुद्धिस्तु कमेनिजेरा, गुप्ति-विशुद्धी फलं यस्य तत् तथा । एवं च सति ज्ञान-चरणलक्षणद्वयाधीनो मोक्षः, केवलं प्रधानतया चरणस्याऽधीनोऽसौ, गौणतयैव च ज्ञानस्य । ततः प्रधान-गुणभावाच्चरणं ज्ञानस्य सार इति ॥११२९ ॥ ११३० ॥
प्रकारान्तरेणापि ज्ञानाच्चारित्रस्य प्रधानत्वं भावयन्नाह
जै सम्बनाणलाभाणंतरमहवा न मुच्चए सव्वो । मुच्चइ य सव्वसंवरलाभे तो सो पहाणयरो ॥११३१॥
अथवा, यद् यस्मात् सर्वं जानातीति सर्वज्ञानं केवलज्ञानं तल्लाभानन्तरमेव सर्वोऽपि प्राणी न मुच्यते- न मुक्तिं प्राप्नोति, मुच्यते च यस्माच्छैलेश्यवस्थायां सर्वसंवरलाभेऽवश्यमेव सर्वः । ततो ज्ञायते केवलज्ञानादप्यन्वय-व्यतिरेकाभ्यां मुख्यो मोक्षकर्ता सर्वसंवर एव प्रधानतरः, स च क्रियारूपत्वाच्चारित्रमिति ॥ ११३१॥ ___ अमुमेवार्थ समर्थयन्नाह
चरणोपलब्धिहेतुर्यज्ज्ञानं चरणतश्च निर्वाणम् । सार इति तेन चरणं प्रधान-गुणभावतो भणितम् ॥ ११२९ ॥ ज्ञानं प्रकाशकमपि गुप्ति-विशुद्धिफलं च यच्चरणम् । मोक्षश्च द्विकाधीनश्चरणं ज्ञानस्य ततः सारः ॥११३०॥ २ यतू सर्वज्ञानलाभानन्तरमथवा न मुच्यते सर्वः। मुच्यते च सर्वसंवरलाभे ततः स प्रधानतरः ११३॥
॥५१॥
JonEdument
For Dod
ony