________________
विशेषा.
बृहद्वृत्तिः ।
॥५१२॥
लाभे वि जस्स मोक्खो न होइ जस्स य स होइ स पहाणो।एवं चिय सुद्धनया निव्वाणं संजम बेंति ॥११३२॥
यस्य मत्यादिज्ञानपश्चकस्य लाभेऽप्यनन्तरमेव मोक्षो न भवति, तज्ज्ञानं मोक्षस्यानन्तर्येण कारणत्वाभावात् 'अप्रधानम्' इति शेषः । यल्लाभानन्तरमेव च स मोक्षोऽवश्यं भवति स संवरो ज्ञानात्प्रधानः । एवमेव च संयमस्य प्रधानकारणतां मन्यमानाः शुद्धनया ऋजुमूत्र-शब्दादयः संयममेव निर्वाणमाहुः, अत्यन्तप्रत्यासन्नकारणे सर्वसंवरसंयमे कार्यस्य निर्वाणस्योपचारात न तु ज्ञानं निर्वाणं ते ब्रुवते, तस्य व्यवहितकारणत्वादिति भावः । तथा चोक्तम्-.
'तैवसंजमो अणुमओ निगंथं पवयणं च बदहारो । सद्द-ज्जुसुयाणं पुण निव्वाणं संजमो चेव ॥ १ ॥ इति ॥११३२॥ प्रेरका माह
आह पहाणं नाणं न चरितं, नाणमेव वा सुद्धं । कारणमिह न उ किरिया सा वि हु नाणप्फलं जम्हा॥११३३॥
ज्ञानवादी माह- ज्ञानमेव प्रधान मोक्षकारणम् , न चारित्रम् । यदिवा, शुद्धं ज्ञानमेवैकं मोक्षस्य कारणं, न तु क्रिया, यस्मादसावपि ज्ञानफलमेव ज्ञानकायमेव । ततश्च यथा मृत्तिका घटस्य कारणं भवन्त्यपि तदपान्तरालवर्तिनां पिण्ड-शिवक-कुशूलादीनामपि कारण भवति, एवं ज्ञानमपि मोक्षस्य कारणं तदपान्तरालभाविनां सर्वसंयमक्रियादीनामपीति । यथा च क्रिया ज्ञानस्य कार्यम् , तथा शेषमपि यत्क्रियानन्तरभावि मोक्षादिकम् , यच्च क्रियाया अर्वाग्भावि बोधिलाभकाले तत्त्वपरिज्ञानादिकं राग-द्वेषनिग्रहादिकं च तत् सर्व ज्ञानस्यैव कार्यम् । यच्चेह सकलजनप्रत्यक्षं मनश्चिन्तितमहामन्त्रपूतविषभक्षण-भूत-शाकिनीनिग्रहादिक तत् सर्व क्रियारहितस्य ज्ञानस्यैव कार्यम् । अतो दृष्टेनाऽदृष्टमपि निर्वाणं ज्ञानस्यैव कार्यमित्यनुमीयत इति ॥ ११३३॥
एतद् दर्शयन्नाहजह सा नाणस्स फलं तह सेस पि तह बोहकाले वि । नेयपरिच्छेयमयं रागादिविणिग्गहो जो य॥११३४॥
, लाभेऽपि यस्य मोक्षो न भवति, यस्य च स भवति स प्रधानम् । एवमेव शुद्धनया निर्वाणं संयम मुक्ते ॥ ११३२ ॥ २ तपःसंयमोऽनुमतो नेग्रंन्धं प्रवचनं च व्यवहारः । शब्द-र्जुश्रुतयोः पुनर्निर्माण संयम एवं ॥1॥ ३ आह प्रधानं ज्ञानं न चारित्रं, ज्ञानमेव वा शुद्धम् । कारणमिह न तु क्रिया सापि खलु ज्ञानफलं यस्मात् ॥ ११३३ ॥ ४ यथा सा ज्ञानस्य फलं तथा शेषमपि तथा बोधकालेऽपि । ज्ञेयपरिच्छेदमयं रागादिविनिग्रहो या ॥ 11३४॥
पगारासस
।
५१२॥