Book Title: Visheshavashyak Bhashya Part 03
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah

View full book text
Previous | Next

Page 107
________________ विशेषा ॥५०५॥ न च भव्यानेव प्रतिबोधयतस्तस्य राग-द्वेषी, इति दृष्टान्तेन दर्शयति- 'किं व कमलेसु इत्यादि' । 'से त्ति' । 'से' तस्य रवेः प्रतिबोधयतोऽपि यत् तानि कुमुदानि न विबुध्यन्त इति । तस्मात् कोत्राभिप्रायः?, इत्याह- 'जं बोहेत्यादि' समानादपि मूरकरपरा-वृत्तिः । माद् यतो बोध-मुकुलनानि यथासंख्यमेव कमल-कुमुदानां जायमानानि दृष्टानि, 'तो त्ति' ततो ज्ञायते- तस्य रवेः, तेषां च कमल-कुमुदानां स्वभावोऽयं यद्- रविः कमलान्येव बोधयति न तु कुमुदानि, कमलान्यपि रवेः सकाशाद् बुध्यन्ते न कुमुदानि, न पुनरिह | कस्यापि राग-द्वेषौ । एवं भगवतोऽपि भव्या-ऽभव्येषु योज्यमिति । दृष्टान्तान्तरमाह- 'जह वेत्यादि उलूकादीनां रात्रिश्चराणां घूकादीनां 'सो त्ति' रविः । अपरमप्यत्र दृष्टान्तमाह- 'सज्झमित्यादि । अत्रैवोदाहरणान्तरमाह- 'मोत्तुमित्यादि दलिके काष्ठादी 'रूयारो' रूपकारः । इति व्याख्याता प्रथमनियुक्तिगाथा ॥११०३ ॥११०४॥११०५॥११०६ ॥११०७॥११०८॥ ११०९।१११०॥ अथ द्वितीयनियुक्तिगाथाव्याख्यानमाह तं नाणकुसुमवुद्धिं घेत्तुं बीयाइबुद्धओ सव्वं । गंथंति पवयणट्ठा माला इव चित्तकुसुमाणं ॥ ११११ ॥ पगयं वयणं पवयणमिह सुयनाणं कहं तयं होज्जा ? । पवयणमहवा संघो गहति तयणुग्गहट्ठाए ॥१११२॥ तां तीर्थकरमुक्तां ज्ञानकुसुमवृष्टिं गृहीत्वा बीजादिबुद्धयो गणधराः, यः पदादप्यनेकानि पदशतानि गृह्णाति, असौ बीजबुद्धिः, आदिशब्दात् कोष्ठबुद्धयादिपरिग्रहः, कोष्ठकपक्षिप्त धान्यमिव यस्य मूत्रा-ऽर्थी सुचिरमपि तिष्ठतः स कोष्ठबुद्धिः; सर्वं तीर्थकरभाषितं विचित्रकुसुममालामिव प्रवचनार्थ ग्रथ्नन्ति । प्रवचनशब्दार्थमेव कथयति-प्रगतं प्रधान प्रशस्तमादौ वा वचनम् , अत्र श्रुतज्ञानं द्वादशाङ्गम्, 'तत् कथं नु नाम भवेद् निष्पद्यते ?" इत्येवं संपधारयन्तस्तदर्थ प्रथ्नन्ति । अथवा, प्रवक्तीति प्रवचनं संघस्तदर्थं ग्रथ्नन्ति । इत्येकादशगाथार्थः ॥ ११११ ॥ १११२ ॥ 'प्रवचनार्थ ग्रथ्नन्ति' इत्युक्तम् । अथवा प्रयोजनान्तरमाह घेत्तुं व सुहं सुहगुणण-धारणा दाउं पुच्छिउं चेव । एएहिं कारणेहिं जीयं ति कयं गणहरेहिं ॥ १११३ ॥ १ क, ग, 'मत्र'। २ तां ज्ञानकुसुमगृष्टिं गृहीत्वा बीजादिबुद्धयः सर्वम् । अनम्ति प्रवचनार्थ माला इव चित्रकुसुमानाम् ॥ १॥ प्रकृतं वचनं प्रपचनमिह श्रुतज्ञानं कथं तद् भवेत् । । प्रवचनमथवा संघो प्रध्नन्ति तदनुग्रहार्थम् ॥ १.१२॥ ३ ग्रहीतुं वा सुखं सुखगुणन-धारणा दा प्रष्टं च । एतैः कारणजीवितमिति कृतं गणधरैः ॥ १३॥ ॥५०५॥ सामनrate INNRAAMRAGRAT

Loading...

Page Navigation
1 ... 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202