Book Title: Visheshavashyak Bhashya Part 03
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah
View full book text ________________
बृहद्वृत्तिः ।
विशेषा० ॥५०॥
इच्छत इच्छतास्मै महानुभावायैतां विभाषितुम् । ततो नियुक्तिद्वारेणैव तस्य शिष्यस्य गुरुस्तां विभाषत इति । तदेवं 'निज्जुत्ता ते अत्या' इत्यादिप्राक्तननियुक्तिगाथा व्याख्याता ॥१०९१।।
अथोत्तरगाथासंबन्धनार्थमाह
केत्तो पसूयमागयमायरियपरंपराइ सुयनाणं । सामाइयाइयमिदं सव्वं चिय सुत्तमत्थो वा ? ॥ १०९२ ॥ ननु पूर्व भवतेदमुक्तम्- 'आचार्यपरम्परया समागतां सामायिकनियुक्तिमहं वक्ष्ये' । तत्रेदं पृच्छयते- 'कत्तो पम्यमित्यादि' आदौ कुतः पुरुषविशेषात् प्रसूतामुत्पन्नां सती तत आचार्यपरम्परयाऽऽगतामायातां तां सामायिकनियुक्तिं त्वं वक्ष्यसि ? इत्युपस्कारः । तथा, इदमपि पृच्छयते । किम् ?, इत्याह- 'सुयनाणमित्यादि सर्वमपि च सामायिकादिकं बिन्दुसारपर्यन्तं सूत्रार्थरूपं श्रुतज्ञानमिदं प्रथम कुतः प्रस्तुतं सत् पश्चादाचार्यपरम्परयाऽवाऽऽगतम् ? इति ॥ १०९२ ।।।
एवमुत्तरगाथाप्रस्तावनां कुर्वन्नाचार्य आत्मनः प्रेर्यपाशङ्कय परिहरनाह__ ऐयं नणु भणियं चिय अत्थपुहत्तस्स तेहिं कहियस्स । इह तेसिं चिय सीलाइकहण-गहणं फलविसेसो ॥१०९३।।
___ ननु 'सामायिकनियुक्तिः श्रुतज्ञानं वा सर्व कुतः पुरुषात् प्रथमं प्रसूतम् ?, इत्यत्र यदुत्तरं, तदेतद् भणितमेव प्रोक्तमेव निर्णीताथेमेवेत्यर्थः । क?, इत्याह- 'अत्यपुहत्तस्सेत्यादि' 'तैस्तीर्थकर-गणधरैः कथितस्याऽर्थपृथक्त्वरूपस्य श्रुतज्ञानस्य भगवतो नियुक्तिं कीर्तयिष्ये' इत्युक्ते तीर्थकर-गणधरेभ्यः सर्वमपि श्रुतज्ञानमादौ प्रसूतम् , इत्युक्तमेव, तत् किमिति पुनरपि प्रश्नः । अत्र प्रतिविधानमाह- 'इहेत्यादि' सत्यम् , ज्ञातमेवेदं यत्- तीर्थकर-गणधरेभ्य एव सर्वमिदमादौ प्रसूतम् , किन्त्विह तेषामेव तीर्थकर-गणधराणां शीलादिस्वरूपकथनम् , ग्रन्धनम् , फलविशेषश्च विशेषतोऽभिधास्यते, इत्ययं पुनरपि प्रश्नोत्तरोपन्यासः । तत्र तीर्थकृतां तपो-नियमज्ञानानि शीलमभिधास्यते, आदिशब्दः स्वगतभेदप्रख्यापकः, तान्येव वृक्षः, तदारुढस्य पुष्पप्रक्षेपकल्पा तु देशना कथनम् , तत्फलविशेषस्तु भव्यजनविबोधनार्थतेति । गणधराणां तु बुद्धिमयपटेन तीर्थकरोक्तं गृहीत्वा मूत्रग्रन्थनं प्रतिपादयिष्यते, फलविशेषस्तु प्रवचनार्थता, सुखग्रहणाद्यनुग्रहश्च ।। इति गाथाष्टकार्थः ॥ १०९३ ॥
१ गाथा १०८५ । २ कुतः प्रसूतमागतमाचार्यपरम्परया श्रुतज्ञानम् । सामायिकादिकमिदं सर्वमेव सूत्रमर्थो वा ॥ १०९२ ॥ ३ एतद् ननु भणितमेवार्थपृथक्त्वस्य तैः कथितस्य । इह तेषामेव शीलादिकथन-अन्यने फलविशेषः ॥ १०९५ ॥
RA
॥५०१॥
For Pres
s
e
Loading... Page Navigation 1 ... 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202