SearchBrowseAboutContactDonate
Page Preview
Page 103
Loading...
Download File
Download File
Page Text
________________ बृहद्वृत्तिः । विशेषा० ॥५०॥ इच्छत इच्छतास्मै महानुभावायैतां विभाषितुम् । ततो नियुक्तिद्वारेणैव तस्य शिष्यस्य गुरुस्तां विभाषत इति । तदेवं 'निज्जुत्ता ते अत्या' इत्यादिप्राक्तननियुक्तिगाथा व्याख्याता ॥१०९१।। अथोत्तरगाथासंबन्धनार्थमाह केत्तो पसूयमागयमायरियपरंपराइ सुयनाणं । सामाइयाइयमिदं सव्वं चिय सुत्तमत्थो वा ? ॥ १०९२ ॥ ननु पूर्व भवतेदमुक्तम्- 'आचार्यपरम्परया समागतां सामायिकनियुक्तिमहं वक्ष्ये' । तत्रेदं पृच्छयते- 'कत्तो पम्यमित्यादि' आदौ कुतः पुरुषविशेषात् प्रसूतामुत्पन्नां सती तत आचार्यपरम्परयाऽऽगतामायातां तां सामायिकनियुक्तिं त्वं वक्ष्यसि ? इत्युपस्कारः । तथा, इदमपि पृच्छयते । किम् ?, इत्याह- 'सुयनाणमित्यादि सर्वमपि च सामायिकादिकं बिन्दुसारपर्यन्तं सूत्रार्थरूपं श्रुतज्ञानमिदं प्रथम कुतः प्रस्तुतं सत् पश्चादाचार्यपरम्परयाऽवाऽऽगतम् ? इति ॥ १०९२ ।।। एवमुत्तरगाथाप्रस्तावनां कुर्वन्नाचार्य आत्मनः प्रेर्यपाशङ्कय परिहरनाह__ ऐयं नणु भणियं चिय अत्थपुहत्तस्स तेहिं कहियस्स । इह तेसिं चिय सीलाइकहण-गहणं फलविसेसो ॥१०९३।। ___ ननु 'सामायिकनियुक्तिः श्रुतज्ञानं वा सर्व कुतः पुरुषात् प्रथमं प्रसूतम् ?, इत्यत्र यदुत्तरं, तदेतद् भणितमेव प्रोक्तमेव निर्णीताथेमेवेत्यर्थः । क?, इत्याह- 'अत्यपुहत्तस्सेत्यादि' 'तैस्तीर्थकर-गणधरैः कथितस्याऽर्थपृथक्त्वरूपस्य श्रुतज्ञानस्य भगवतो नियुक्तिं कीर्तयिष्ये' इत्युक्ते तीर्थकर-गणधरेभ्यः सर्वमपि श्रुतज्ञानमादौ प्रसूतम् , इत्युक्तमेव, तत् किमिति पुनरपि प्रश्नः । अत्र प्रतिविधानमाह- 'इहेत्यादि' सत्यम् , ज्ञातमेवेदं यत्- तीर्थकर-गणधरेभ्य एव सर्वमिदमादौ प्रसूतम् , किन्त्विह तेषामेव तीर्थकर-गणधराणां शीलादिस्वरूपकथनम् , ग्रन्धनम् , फलविशेषश्च विशेषतोऽभिधास्यते, इत्ययं पुनरपि प्रश्नोत्तरोपन्यासः । तत्र तीर्थकृतां तपो-नियमज्ञानानि शीलमभिधास्यते, आदिशब्दः स्वगतभेदप्रख्यापकः, तान्येव वृक्षः, तदारुढस्य पुष्पप्रक्षेपकल्पा तु देशना कथनम् , तत्फलविशेषस्तु भव्यजनविबोधनार्थतेति । गणधराणां तु बुद्धिमयपटेन तीर्थकरोक्तं गृहीत्वा मूत्रग्रन्थनं प्रतिपादयिष्यते, फलविशेषस्तु प्रवचनार्थता, सुखग्रहणाद्यनुग्रहश्च ।। इति गाथाष्टकार्थः ॥ १०९३ ॥ १ गाथा १०८५ । २ कुतः प्रसूतमागतमाचार्यपरम्परया श्रुतज्ञानम् । सामायिकादिकमिदं सर्वमेव सूत्रमर्थो वा ॥ १०९२ ॥ ३ एतद् ननु भणितमेवार्थपृथक्त्वस्य तैः कथितस्य । इह तेषामेव शीलादिकथन-अन्यने फलविशेषः ॥ १०९५ ॥ RA ॥५०१॥ For Pres s e
SR No.600164
Book TitleVisheshavashyak Bhashya Part 03
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages202
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy