SearchBrowseAboutContactDonate
Page Preview
Page 102
Loading...
Download File
Download File
Page Text
________________ विशेषा० ॥५००॥ Jain Educations Internatio यथा मङ्खः फलके नानाप्रकारं लिखितमपि वस्तु ग्रन्थतः पठति, अर्थतश्च प्रभाषते - व्याचष्टे, शलाकाङ्गुल्यादिना च बालगोपालाङ्गनादिमुग्धप्रबोधनार्थं प्रतिवस्त्वपरजन्माचीर्ण कर्मविपाकादिकं दर्शयति, यथा- अन्यजन्मन्यनया भर्ता साटिकया वञ्चितः बृहद्वृत्तिः । तेनास्या ईदृशो मातङ्गकुलजन्मादिको विपाकः अनया च भर्तृमित्रे प्राघूर्णके समायाते मुखमोटको दत्त आसीत् अनया तु सत्यपि विभवे भिक्षाचरेष्वागच्छत्सु सदैव 'नास्ति नास्ति' इत्याद्येवोद्धुष्टम् तेनेदृश ईदशश्च दुःखविपाको जात इत्यादि, तथाऽत्रापि श्रोत्रवैचित्र्यं पश्यन् सर्वानुग्रहप्रवणबुद्धिराचार्यः सूत्रे निर्युक्तानप्यर्थान् निर्युक्त्या विभाषत इति ।। १०८९ ।। अथवा, नियुक्तिगाथोत्तरार्धमन्यथा व्याख्यायते । कथम् ?, इत्याह अहवा सुपरिवाडी सुयोवएसोऽयमेव जदवस्सं । सोयव्वं निस्संकियसुयविणयत्थं सुबोहं पि ॥ १०९० ॥ अथवा श्रुतपरिपाटी श्रुतस्य विधिः श्रुतस्योपदेशोऽयमेव यदवश्यं सुबोधमपि श्रुतं निःशङ्कितत्वहेतोर्विनयोपचारार्थं च मुसुक्षुभिः श्रोतव्यम् । अत एवंभूता सूत्रपरिपाटी यद्यपि सूत्रे निर्युक्ता एवार्थाः सन्ति, तथापि विभाषितुं व्याख्यानयितुमेषयति प्रयोजयति, इत्येषोऽत्र भावार्थः स्वयमेवाऽवगन्तव्य इति ।। १०९० ।। 'सूत्रपरिपाटी' इति पाठान्तरं कचित्, तत्राह - छह विभासि मे सुपरिवार्डि न सुटु बुज्झामि । नातिमई वा सीसो गुरुमिच्छावेइ वोत्तुं जे ॥ १०९१ ॥ 'वा' इत्यथवा, नातिशयेन मतिर्यस्याऽसौ नातिमतिर्मन्दमतिः शिष्यो गुरुमाचार्य 'इच्छावे त्ति' एषयति प्रयोजयति वक्तुम् । 'जे' इत्यलङ्कारार्थः । कथं वक्तुमेषयति ?, इत्याह- 'इच्छह विभासिउं मे त्ति' इच्छत इच्छत विभाषितुं मम श्रुतपरिपाटी सूत्रपद्धतिम्, नाहमेतां सुष्ठ बुध्ये- प्रथममेव निर्युक्तत्वेन सतोऽप्येतदभिधेयानर्थान् मन्दमतित्वाद् भवद्भिरव्याख्यातान् नाहं सम्यगवच्छामीत्यर्थः । अथवा क्रमादेवेह निर्युक्तिः प्रयोक्त्री विवक्ष्यते । ततश्चेत्थमक्षरयोजना- यद्यपि सूत्रे निर्युक्तत्वेन सन्त एवार्थाः, तथापि तानप्रतिबुध्यमानः श्रोता यदैवं वक्ति- नातिमतिर्मन्दमतिरहं सदर्थामपि सूत्रपरिपाटी सुष्ठु न बुध्ये सम्यग् नावगच्छामि, अत इच्छत इच्छत प्रभो ! एतां मम विभाषितुमिति । तदित्थं वदति तस्मिन् श्रोतरि नियुक्तिरेव गुरुं सूत्रपरिपार्टी वक्तुमेषयति प्रयोजयति१ अथवा श्रुतपरिपाटी श्रुतोपदेशोऽयमेव यदवश्यम् । श्रोतव्यं निःशङ्कितश्रुतविनयाथ सुबोधमपि ॥ १०९० ॥ २ क. ग. ' मु' । ३ इच्छत विभाषितुं मम श्रुतपरिपाटी न सुष्ठु बुध्ये नातिमतिर्वा शिष्यो गुरुमेपयति वक्तुम् ॥ १०९३ ॥ For Personal and Private Use Only ॥५००॥ www.jainelibrary.org
SR No.600164
Book TitleVisheshavashyak Bhashya Part 03
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages202
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy