SearchBrowseAboutContactDonate
Page Preview
Page 101
Loading...
Download File
Download File
Page Text
________________ विशेषा० ॥४९९॥ Jain Educationa Internatio जं निच्छयाइजुत्ता सुत्ते अत्था इमीए वक्खाया । तेणेयं निज्जुत्ती निज्जुत्तत्थाभिहाणाओ || १०८६ ॥ यद् यस्मात् सूत्रे निश्चयेन, आदिशब्दादाधिक्येन, आदौ साधु वा युक्ताः संबद्धा निर्युक्ता एव सन्तोऽर्था अनया निर्युक्त्या व्याख्याताः, तेन तस्मात्कारणादियं निर्युक्तार्थाभिधानाद् निर्युक्तानां युक्तियुक्तशब्दलोपाद् निर्युक्तिर्भवति ।। १०८६ ।। अथ प्रेर्यमाशङ्कय परिहरन्नाह - सुत्ते निज्जुत्ताणं निज्जुत्ती पुणो किमत्थाणं ? । निज्जुत्ते वि न सव्वे कोइ अवक्खाणिए मुणइ || १०८७॥ ननु सूत्र एव निर्युक्तानां निबद्धानां सतामर्थानां तद्व्याख्यानार्थं क्रियमाणया निर्युक्त्या किं पुनः कार्यम् :- न किश्चिदित्यर्थः । ये हि सूत्र एव विद्यमानार्थाः सन्ति, तान् स्वत एव विनेयवर्गों ज्ञास्यति, अतस्तद्विभाषणप्रवृत्ता वृथैव निर्युक्तिरिति भावः । अत्रोत्तरम् - 'निज्जुत्ते वीत्यादि' सूत्रे निर्युक्तानपि सतः सर्वानप्यर्थान् कोऽपि तथाविधप्रज्ञापाटवरहितः शिष्यो निर्युक्त्याऽव्याख्यातान् न मुणति नावबुध्यत इति ।। १०८७ ॥ ततः किम् ?, इत्याह * तो सुयपरिवाडि च्चिय इच्छावेइ तमणिच्छमाणं पि । निज्जुत्ते वि तदत्थे वोत्तुं तदग्गहाए ||१०८८|| ततः श्रुतपरिपाठ्येव सूत्रपद्धतिरेव विभाषितुमनिच्छन्तमपि तन्निर्युक्तिकर्तारमाचार्य तस्य सूत्रस्याऽर्थस्तदर्थान् सूत्रे निर्युक्ताननवबुध्यमाने श्रोतरि तदनुग्रहार्थं तान् वक्तुमेषयतीव एषयति प्रयोजयति, अतस्तानाचार्यो निर्युक्त्या विभाषते इति तस्याः साफल्यमिति ।। १०८८ ॥ अत्र दृष्टान्तमाह फैलयलिहियं पि मंखो पढइ पभासइ तहा कराईहिं । दाएइ य पइवत्थं सुहबोहत्थं तह इहं पि ॥ १०८९ ॥ १ यद् निश्चयादियुक्ताः सूत्रेऽर्थं अनया व्याख्याताः । तेनेयं नियुक्तिर्निर्युक्तार्थाभिधानात् ॥ १०८६ ॥ २ सूत्रे निर्युक्तानां नियुक्तया पुनः किमर्थानाम् ? । निर्युक्तानपि न सर्वान् कश्चिदव्याख्यातान् जानाति ॥ १०८७ ॥ ३ ततः सूत्रपरिपाठ्येवैपयति तमनिच्छन्तमपि । निर्युक्तानपि तदर्थान् वक्तुं तदनुग्रहार्थम् ॥ १०८८ ॥ ४ फलक लिखितमपि मङ्घः पठति प्रभाषते तथा करादिभिः । दर्शयति च प्रतिवस्तु सुखबोधार्थ तथेहाऽपि ॥ १०८९ ॥ For Personal and Private Use Only बृहद्वृत्तिः । ॥४९९ ॥ www.jainelibrary.org
SR No.600164
Book TitleVisheshavashyak Bhashya Part 03
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages202
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy