________________
विशेषा
बृहद्वात्तिः ।
॥५०॥
हालसम्बर
अथोक्तप्रश्नस्यैवोत्तरमाहतेव-नियम-नाणरुक्खं आरूढो केवली अमियनाणी । तो मुयइ नाणवुद्धिं भवियजणविबोहणट्ठाए ॥१०९४॥ तं बुद्धिमएण पडेण गणहरा गिहिउं निरवसेसं । तित्थयरभासियाइं गंथंति तओ पवयणट्ठा ॥ १०९५ ॥
रूपकमिदं द्रष्टव्यम् । तत्र वृक्षो द्विधा- द्रव्यतः, भावतश्च । द्रव्यतः प्रधानः कल्पवृक्षः, यथा च तमारुह्य कश्चिद् गन्धादिगुणविशिष्टानां कुसुमानां संचयं कृत्वा तदधोभागवर्तिनां तदारोहणासमर्थानां पुरुषाणामनुकम्पया कुसुमानि विसृजति, तेऽपि भूपात-रजोगुण्ठनभिया विमलविस्तीर्णपटेषु प्रतीच्छन्ति, ततो यथोपयोगमुपभुञ्जानाः, परेभ्यश्चोपकुर्वाणाः सुखमाप्नुवन्ति । एवं भावक्षेऽपि सर्वमिदमायोज्यम् । यद्यथा- तपश्च नियमश्च ज्ञानं च तान्येव वृक्षस्तम् । तपो बाह्या-ऽभ्यन्तरभेदतो द्वादशधा प्रतीतमेव । इन्द्रिय-नोइन्द्रियसंयमस्तु नियमः । तत्र श्रोत्रादीन्द्रियाणां निग्रह इन्द्रियसंयमः, कषायादीनां तु निग्रहो नोइन्द्रियसंयमः । ज्ञानमिह केवलं संपूर्ण गृह्यते । एतत्त्रयरूपं वृक्षमारूढः । ज्ञानमकेवलरूपमपि स्यात् , तम्यवच्छेदार्थमाह- 'केवली' केवलशब्दस्येह संपूर्णवाचकत्वात् केवलं संपूर्णमस्याऽस्तीति केवली । अयमपि श्रुत-क्षायिकसम्यक्त्व-क्षायिकज्ञानभेदात् त्रिविधः, अथवा, श्रुता-ऽवधि-मनःपर्याय-केवलज्ञानभेदाच्चतुर्विधः, तत्र शेषव्यवच्छेदार्थमाह- 'अमितज्ञानी' क्षायिकज्ञानकेवली सर्वज्ञ इत्यर्थः। स चेह प्रक्रमाद् भगवांश्चतुर्विंशदतिशयसंपन्नस्तीर्थकरः । 'तो त्ति' ततो वृक्षाज्ज्ञानरूपकुसुमवृष्टिकारणे कार्योपचाराज्ज्ञानकारणभूतशब्दकुसुमदृष्टिमित्यर्थः । किमर्थम्?, भव्याश्च ते जनाश्च तेषां विवोधनं तदर्थं तन्निमित्तमिति ।
तां च ज्ञानकुसुमवृष्टिं बुद्धया निर्दृत्तो बुद्धिमयस्तेन विमलबुद्धिमयेन पटेन गणधरा गौतमादयो ग्रहीतुं गृहीत्वाऽऽदाय निरवशेषां संपूर्णाम् , ततस्तीर्थकरभाषितानि कुसुमकल्पानि भगवदुक्तानि विचित्रप्रधानकुसुममालावद् ग्रनन्ति । किमर्थम् , प्रगतं, शस्तम् , आदौ वा वचनं प्रवचनं द्वादशाङ्गम् , प्रवक्तीति वा प्रवचनं संघस्तदर्थ तन्निमित्तम् ॥ इति नियुक्तिगाथाद्वयार्थः ॥ १०९४ ॥१०९५ ।।
भाष्यकारः प्राहरुक्खाइरूवयनिरूवणथमिह दव्वरुक्खदिटुंतो । जह कोइ विउलवणसंडमज्झयारट्ठियं रम्मं ॥१०९६॥
तपो-नियम-ज्ञानवृक्षमारूढः केवली अमितज्ञानः । ततो मुञ्चति ज्ञानवृष्टिं भव्यजनविबोधनार्थम् ॥ १.९४ ॥ ___ तां बुद्धिमयेन पटेन गणधरा गृहीत्वा निरवशेषाम् । तीर्थकरभाषितानि प्रथ्नन्ति ततः प्रवचनार्थम् ॥ १०९५ ॥ २ क. ग. 'रतो' । ३ वृक्षादिरूपकनिरूपणाधमिह व्यवृक्षदृष्टान्तः । यथा कश्चिद् विपुलवनषण्डमध्यस्थितं रम्यम् ॥ १०९६ ॥
closeOKO
५०२॥
Jan Education interna
For Personal and Private Use Only
www.jainelibrary.org