SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ विशेषा० ||४४८|| Jain Education Internation | द्रव्यानुयोगः । नयविचारश्चार्वाक् प्रायो निषिद्धः । इति न सामायिकस्य प्रायो नयैष्ववतार इति ॥ ९५० ॥ संख्याप्रमाणे तर्ह्यवतरतीदं नवा ?, इत्याह 'संखामाणे कालियसुयपरिमाणे परित्तपरिमाणं । सुयओ तदत्थओ पुण भणियं तमणंतपज्जायं ॥ ९५९ ॥ संख्या नाम-स्थापना द्रव्य-क्षेत्र कालौ - पम्य-परिमाण भावभेदाऽनुयोगद्वारेष्वष्टधा प्रोक्ता । तत्र संख्यामाने संख्याप्रमाणे विचा कालिक परिमाणे एतदवतरति । तत्र कालिकश्रुतपरिमाणं द्विविधम्- सूत्रतः, अर्थतश्च । तत्र सूत्रतस्तु सामायिकाध्ययनं परीत्तं संख्याताक्षरादिनियतपरिमाणम् । तस्य सामायिकस्यार्थस्तदर्थस्ततः पुनरनन्तपर्यायत्वादनन्तपरिमाणं भणितमिति । तदेवं प्रमाणमप्युक्तं संक्षेपतः ।। ९५१ ॥ अथ वक्तव्यतामभिधित्सुराह सैमओ जो सिद्धंतो सो स-परो भयगओ तिविहभेओ । तत्थ इमं अज्झयणं ससमयवत्तव्वयानिययं ॥ ९५२ ॥ यः सिद्धान्तः स तावत् समय उच्यते । स च त्रिविध:- स्वसमय- परसमयो - भयसमयभेदात् । अत एव वक्तव्यताऽनुयोगद्वारेषु त्रिविधा प्रोक्ता - स्वसमयवक्तव्यता, परसमयवक्तव्यता, स्व-परोभयवक्तव्यता चेति । तत्रेदं सामायिकाध्ययनं स्वसमयवक्तव्यतानियतं, स्वसमय स्यैवेह प्रतिपाद्यमानत्वादिति ।। ९५२ ॥ न केवलमिदमध्ययनम्, किन्तु सर्वाण्यप्यध्ययनानि स्वसमयवक्तव्यतानियतान्येव । कुतः ?, इत्याह पैरसमओ उभयं वा सम्मद्दिस्सि ससमओ जेण । तो सव्वज्झयणाई ससमयवत्तव्वनिययाई ॥ ९५३ ॥ यतः परसमयः, उभयसमयो वा सम्यग्दृष्टेः स्वसमय एव, यथावद्विषयविभागेन व्यवस्थापनात् । ततो यद्यपि केषुचिदध्ययनेषु परो-भय-समयवक्तव्यतापि श्रूयते, तथापि तानि सर्वाण्यपि स्वसमयवक्तव्यतानियतान्येव, सम्यग्दृष्टिपरिग्रहात् । एतच पूर्वमनेकशो भावितमेवेति ।। ९५३ ॥ १ संख्यामाने कालिकश्रुतपरिमाणे परीसपरिमाणम् । श्रुततस्तदर्थतः पुनर्भणितं तदनन्तपर्यायम् ॥ ९५६ ॥ २ समयो यः सिद्धान्तः स स्व-परो भयगतस्त्रिविधभेदः । तत्रेदमध्ययनं स्वसमयवक्तव्यतानियतम् ९५२ ॥ ३ परसमय उभयं वा सम्यग्दृष्टेः स्वसमयो येन । ततः सर्वाध्ययनानि स्वसमयवक्तव्यनियतानि ॥ ९५३ ॥ For Personal and Private Use Only बृहद्वृत्तिः । ॥४४८॥ www.jainelibrary.org
SR No.600164
Book TitleVisheshavashyak Bhashya Part 03
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages202
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy