________________
विशेषा०
बृहद्वत्तिः ।
॥४४९॥
किञ्च
'मिच्छत्तमयसमूह सम्मत्तं जं च तदुवगारम्मि । वट्टइ परसिद्धंतो तो तस्स तओ ससिद्धंतो ॥ ९५४ ॥ मिथ्यात्वानामेकान्तक्षणिकत्वा-ऽक्षणिकत्ववादिसौगतादिमतानां यः समूहः समुदायः स्यात्पदलाञ्छितः, स एव यस्मात् सम्यक्त्वम् , नान्यत् । यस्माच्च तस्य स्खसमयस्योपकारस्तदुपकारस्तस्मिन् वतते परसिद्धान्तः, परसिद्धान्तव्यावृत्त्यैव स्वसिद्धान्तसिद्धेः, असमञ्जसवादित्वं परसिद्धान्तानां दृष्ट्रा स्वसिद्धान्ते स्थैयसिद्धेश्चेति । ततस्तस्मात्तस्य सम्यग्दृष्टेस्तकः परसिद्धान्तः स्वसिद्धान्त एव । तदेवं सम्यग्दृष्टः सर्वोऽपि विषयविभागेन स्थापितः स्वसिद्धान्त एवः इति सर्वाण्यप्यध्ययनानि स्वसमयवक्तव्यतानियतान्येवेति स्थितम् । तदेवमभिहिता वक्तव्यता ॥ ९५४ ॥
अथार्थाधिकारमभिधित्सुराह
सावज्जजोगविरई अज्झयणत्याहिगार इह सो य । भण्णइ समुदायत्थो ससमयवत्तव्वयादेसो ॥९५५॥
इह सावद्ययोगविरतिः सामायिकाध्ययनस्यार्थाधिकारः, स च समुदायार्थो भण्यत इति प्रागप्युक्तमेव । स एव च स्वसमयवक्तव्यतायाः संपूर्णाया एकदेशोऽभिधीयत इति । उक्तोऽर्थाधिकारः ॥ ९५५ ।।
अथ समवतारमभिधित्सुराह
अहुणा य समोयारो जेण समोयारियं पइद्दारं । सामाइयं सोऽणुगओ लाघवओ नो पुणो वच्चो ॥ ९५६ ॥
अधुना समवतारोऽवसरप्राप्तः । चकारो भिन्नक्रमे, तद्यथा- स च 'लाघवउ ति' लाघवमाश्रित्य लाघवार्थमित्यर्थः, अनुगतः पूर्वमेव गतोऽतिक्रान्तः पूर्वमेवाभिहित इत्यर्थः । कथम् ?, इत्याह- येन यस्मात् प्रतिद्वारं सामायिकाध्ययनं समवतारितमेव । ततो नेदानीं पुनरपि समवतारो वाच्यः, तद्वयापारस्याऽध्ययनसमवतारणलक्षणस्य प्रतिद्वारमनिष्ठितत्वात् । एतदुक्तं भवति- अधुना षष्ठ
, मिथ्यात्वमतसमूहः सम्यक्त्वं यच्च तदुपकारे । वर्तते परसिद्धान्तस्ततस्तस्य सकः स्वसिद्धान्तः ॥ ९५४ ॥ २ घ. छ. झ. 'तसमूहमयं स'। ३ क. ग. 'दिम'। सावद्ययोगविरतिरध्ययनार्थाधिकार इह स च । भण्यते समुदायार्थः स्वसमयवक्तव्यतादेशः ॥ ९५५ ॥ ५ अधुना स समवतारो येन समवतारितं प्रतिद्वारम् । सामायिक सोऽनुगतो लाघवतो नो पुनर्वाच्यः ॥ ९५६ ॥
fotooto
REPO
॥४४९॥
For Personal and Private Use Only