________________
विशेषा०
बृहद्दत्तिः ।
॥४५०॥
।
उपक्रमभेदः समवतारः प्रस्तुतः, स च लाघवार्थ सामायिकस्य प्रतिद्वारं समवतारितत्वात् पूर्वमेवाभिहितः, इति न पुनरप्यत्रोच्यते, पौनरुक्त्यप्रसङ्गात् ।। इति सप्तदशगाथार्थः॥९५६ ॥
॥ इत्युपक्रमः समाप्तः ॥ अथ निक्षेपलक्षणं द्वितीयमनुयोगद्वारमभिधित्सुराह
भण्णइ धिप्पइ य सुहं निक्खेवपयाणुसारओ सत्थं । ओहो नाम सुत्तं निक्खेतव्वं तओऽवस्सं ॥९५७ ॥
यस्माद् नामादिनिक्षेपानुसारतः शास्त्रम् , अध्ययनम् , उद्देशको वा सुखेनैव भण्यतेऽभिधीयते, सुखेनैव च गृह्यतेऽधिगम्यते, तस्मात् शास्त्रादेः संबन्धी ओघो, नाम, सूत्रं चावश्यमेव निक्षेप्तव्यम् । एतेन च यद् निक्षेपस्य पूर्व सामान्येन त्रैविध्यमुक्तम् , तदिदानी विशेषतो दर्शितमवगन्तव्यम् । तद्यथा-त्रिविधो निक्षेपः- ओघनिष्पन्नः, नामनिष्पन्नः, सूत्रालापकनिष्पन्नश्चेति ॥ ९५७ ॥
तत्रौघः किमुच्यते ?, इत्याह
ओहो जं सामण्णं सुयाभिहाणं चउव्विहं तं च । अज्झयणं अज्झीणं आओ ज्झवणा य पत्तेयं ॥९५८॥ नामाइचउब्भेयं वण्णेऊणं सुयाणुसारेणं । सामाइयमाउज्जं चउसु पि कमेण भावेसु ॥ ९५९ ॥
इह यत् श्रुतस्य जिनवचनरूपस्य सामान्यमङ्गा-ऽध्ययनो-देशकाँदिकं नाम तदोघ इत्युच्यते, सामान्यं शास्त्रनामेत्यर्थः । तत्रेह सामायिकस्य प्रस्तुतत्वात् तद्विषयं सामान्यनाम पाह- अध्ययनम् , अक्षीणम् , आयः, क्षपणा चेति । इदं च सामायिकादिशाखविशेषस्य सामान्यमध्ययनादिकमभिधानमनुयोगद्वारलक्षणश्रुतानुसारेण प्रत्येकं नामादि चतुर्विधमुपवर्ण्यते; तद्यथा- नामाध्ययनम् , स्थापनाध्ययनम् , द्रव्याध्ययनम् , भावाध्ययनम् । तथा, नामाक्षीणं, स्थापनाक्षीणम् , द्रव्याक्षीणम् , भावाक्षीणम् । एवमाय-क्षपणयोरप्युक्त्वा क्रमेण चतुर्वपि भावेषु भावाध्ययने, भावाक्षीणे, भावाऽऽये, भावक्षपणायां चेत्यर्थः । किम् ?, इत्याह-सामायिकमायोज्यम्सामायिकमेव भावाध्ययनादिवाच्यत्वेनात्र बोद्धव्यमित्यर्थः ॥ ९५८ ॥ ९५९ ॥
१ भग्यते गृह्यते च सुखं निक्षेपपदानुसारतः शाखम् । ओघो नाम सूत्र निक्षेप्तव्यं ततोऽवश्यम् ॥ ९५७ ॥ २ ओघो यत् सामान्य श्रुताभिधानं चतुर्विधं तच्च । अध्ययनमक्षीणमायः क्षपणा च प्रत्येकम् ॥ ९५८ ॥ नामादिचतुर्भेदं वर्णयित्वा धुतानुसारेण । सामायिकमायोज्यं चतुर्वपि क्रमेण भावेषु ॥ ९५९ ॥ ३ घ. छ. 'दि ना'।
POSeeo
॥४५॥
Jan Education intamata
For Don Pee Only
FOwww.jaineltrary.org