SearchBrowseAboutContactDonate
Page Preview
Page 53
Loading...
Download File
Download File
Page Text
________________ POORDAR विशेषा बृहदत्तिः । ॥४५॥ । अथाध्ययनादीनां चतुर्णामपि क्रमेण निरुक्तमाह'जेण सुहझप्पजणं अज्झप्पाणयणमहियमयणं वा । बोहस्स संजमस्स व मोक्खस्स व जं तमज्झयणं ॥९६०॥ इह नैरुक्तेन विधिना प्राकृतस्वाभाव्याच्च, शुभं 'अज्झप्पं चित्तं जणेइ त्ति पगारलोवाओ अज्झयणं, अहवा, अज्झप्पाणयणं प्पगार-आकार-णकारलोवाओ अज्झयणं ति' । अथवा, बोधस्य, संयमस्य, मोक्षस्य वाऽधिकमयनं तद्धेतृत्वात् पापकं यत् तदध्ययनमिति ॥ ९६०॥ अज्झीणं दिज्जंतं अव्योच्छित्तिनयओ अलोओ व्व । आओ नाणाईणं झवणा पावाण खवणं ति ॥९६१॥ अर्थिभ्योऽनवरतं दीयमानमपि वर्धत एव न तु क्षीयत इत्यक्षीणम् । अथवा, अव्यवच्छित्तिनयमतेन सर्वदैवाव्यवच्छेदात् , अलोकवत् अक्षीणम् । आयो लाभः प्राप्तिज्ञानादीनामस्मादित्यायः । क्षपणाऽपचयो निजरा पापकर्मणामस्मादिति क्षपणेति । तदेवमभिहितमोघनाम, तदभिधाने चोक्त ओघनिष्पन्नो निक्षेपः ।। ९६१ ॥ अथ नामनिष्पन्न निक्षेपमभिधित्सुरध्ययनस्य विशेषनाम, तनिक्षेपं चाह सामाइयं ति नामं विसेसविहियं चउव्विहं तं च । नामाइं निरुत्तीए सुत्तप्फासे व तं वोच्छं ॥ ९६२ ॥ प्रस्तुताध्ययनस्य सामायिकमिति विशेषविहितं नाम । तच्च चतुर्विधम् । कथम् ?, इत्याह- नामादि-नामसामायिकम् , स्थापनासामायिकम् , द्रव्यसामायिकम् , भावसामायिकं चेति । एतच्चार्थनिरूपणतो वक्ष्येऽहम् । क, इत्याह-निरुक्तौ 'उद्देसे निदेसे य निग्गमे' इत्यायपोद्घातनियुक्तिगतगाथाद्वयपर्यन्ते 'भवागरिसफोसणनिरुत्ती' इति यद् नियुक्तिद्वारं तत्रार्थतोऽभिधास्य इत्यर्थः। यदिवा, नियुक्त्यनुगमभेदरूपायामेव सूत्रस्पर्शिकनियुक्तौ वक्ष्य इति ।। ९६२ ॥ अत्राक्षेप-परिहारौ पाह--- १ येन शुभाध्यात्मजनकमध्यात्मानयनमधिकमयनं वा । बोधस्य संयमस्य वा मोक्षस्य वा यत् तदध्ययनम् ॥ ९६० ॥ २ अध्यात्म चित्तं जनयतीति प्प(कार लोपादध्ययनम् , अथवा, अध्यात्मानयनं प्प(कार) आकार-णकारलोपादध्ययनमिति । ३ अक्षीणं दीयमानमव्यवच्छित्तिनयतोऽलोक इव । आयो ज्ञानादीनां क्षपणा पापानां क्षपणमिति ॥ ९६१॥ ४ क. ग. 'लोय ब्व'। ५ सामायिकमिति नाम विशेषविहितं चतुर्विधं तच्च । नामादि निरुतौ सूत्रपणे वा तद् वक्ष्ये ॥ ९६२ ॥ ६ गाथा ९५३ । ७ गाथा ९७४ । ॥४५॥ For es s e Only
SR No.600164
Book TitleVisheshavashyak Bhashya Part 03
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages202
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy