Book Title: Vir Mitroday Puja Prakash Author(s): Vishnuprasad Sharma Publisher: Chaukhamba Sanskrit Series Office View full book textPage 9
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तत्तदेवताराधने फलानि । रुद्रयागात् रुद्रपूजातः । धारणावती बुद्धिर्मेधा । तथा, यः प्रदद्याद्भवां लक्षं दोग्ध्रीणां वेदपारगे । एकाहमर्चयेद्भानुं तस्य पुण्यं ततोऽधिकम् ॥ यं च काममभिध्यायन् भास्करान्वितमानसः । उपोष्य तमवाप्नोति प्रसन्ने कमलध्वजे || कमलध्वजे रवौ । तथा, यजेदेकं सहस्रांशुं मोक्षकामो न संशयः । तथा, योगो ज्ञानं यशः सिद्धिर्महादेवादवाप्यते । आरोग्यं साम्प्रतं पुत्रं भास्करात्माप्नुयात् ध्रुवम् ॥ साम्प्रतं कुशलम् । गतिमिष्टां तथा कामं प्रददाति त्रिविक्रमः । धर्मार्थकाममोक्षणां भाजनं विष्णुपूजकः ॥ सर्वान् कामानवाप्नोति सम्पूज्य विष्णुवल्लभाम् । विघ्नो न जायते तस्य यजेद्यस्तु विनायकम् ॥ मातृगणान्महासिद्धिः सर्वेषामेव जायते । लभते धनधान्यानि मर्त्यः पूज्य हुताशनम् ॥ महागणपतेः कर्मसिद्धिं प्राप्नोति मानवः । महागणपतेरिति पञ्चमी । सर्व जगद्वशीकुर्यान्महागणपतिः सदा । स्वर्गापवर्गसंसिद्धिर्दुर्गा यागात्प्रजायते ॥ भविष्ये, यः सदा पूजयेदुर्गा प्रणमेद्वापि भक्तितः । For Private And Personal Use OnlyPage Navigation
1 ... 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 ... 107