Book Title: Vir Mitroday Puja Prakash Author(s): Vishnuprasad Sharma Publisher: Chaukhamba Sanskrit Series Office View full book textPage 8
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वीरमित्रोदयस्य पूजाप्रकाश पूजयेदेवदेवेशं द्रव्यं सम्पाद्य यत्नतः ॥ अन्ये देवतापूजाकालास्तत्तत्पूजाप्रकरणे द्रष्टव्या इति । अथ ततद्देवताराधने फलानि । मात्स्ये, आरोग्यं भास्करादिच्छेद्धनमिच्छेद्धुताशनात् । ज्ञानं च शङ्करादिच्छेन्पोक्षमिच्छेज्जनार्द्दनात् ॥ याज्ञवल्क्यः, आदित्यस्य सदा पूजां तिलकस्वामिनस्तथा । महागणपतेश्चैव कुर्वन् सिद्धिमवाप्नुयात् ॥ तिलकप्रियस्य स्वामिनः स्कन्दस्य । मार्तण्डतिलकस्वामिमहागणपतीन् वयम् । विश्ववन्द्यान्नमस्यामः सर्वसिद्धिविधायिनः || इति वाचस्पत्यश्लोके कल्पतरुणा तथा व्याख्यातम् । विज्ञानेश्वरस्तु तिलकं स्वामिन इति पठित्वा तिलकं सुवर्णादिनितिमिति व्याचख्यौ । पूजामित्यादि त्रिषु सम्बध्यते । सदाश्रवणान्नित्येति केचित् । वस्तुतः फलसम्बन्धश्रवणात्काम्यापि । याज्ञवल्क्यः, श्रान्तसंवाहनं रोगिपरिचर्या सुरार्चनम् । विप्रपादोदकोच्छिष्टमार्जनं गोप्रदानवत् ॥ गवाह्निकं देवपूजा वेदाभ्यासः सरित्प्लवः । नाशयन्त्याशुपापानि महापातकजान्यपि ॥ सरित्प्लवो नदीस्नानम् । सरिदत्र पुण्या नदी । देवीपुराणे, मन्त्रादिसाधनं द्रव्यं रुद्रयागादवाप्यते । धीमेधाज्ञानवात्सल्यमुमायागादवाप्यते ॥ For Private And Personal Use OnlyPage Navigation
1 ... 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 ... 107