Book Title: Vir Mitroday Puja Prakash Author(s): Vishnuprasad Sharma Publisher: Chaukhamba Sanskrit Series Office View full book textPage 6
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वीरमित्रोदयस्य पूजाप्रकाशे अनामित्वं गृहभङ्गकारणमतो गृहाणाश्रममुत्तमं मुने । अनाश्रमस्थैर्द्विज वेदपारगैरपि त्वहं नानुगृहामि चार्चनम् ॥ इति भगवद्वाक्यम् । तस्यायमर्थः । आश्रमिकृतमर्चनं यथा ऽनुगृह्णामि न तथाऽनाश्रमिकृतमिति । साधारणधर्मबोधकवचनस्वरसादाचाराच्च । देवीपुराणे देवीमूर्तीरभिधाय ब्रह्मवाक्यम्, एतासां शास्त्रवेत्ता यो देवपूजाविधौ शुभः । मातृमण्डलवेत्ता च ब्राह्मणः क्षत्रियोऽपि वा ॥ प्रतिचारोऽथ वैश्यो वाऽप्यन्यो वा तन्त्रविद्यदि । पूजाविधौ भवेत् श्रेष्ठो नापटुर्न कुशीलवः ॥ नानैष्ठिको दाम्भिको वा पूजकः प्राप्यते शुभः ॥ प्रतिचारः शूद्रः । अपटुः असमर्थः । पूजारनाकरे तु पण्ड इति पठित्वा रुद्रपूजायामकुशल इतिव्याख्यातम् । कुशीलवो नटादिः। अत्रैकपाके वसतां पुत्रभ्रातृणामपि देवपूजाधिकारमाह आश्वलायनाचार्यः, पृथगप्येकपाकानां ब्रह्मयज्ञो द्विजातिनाम् । अग्निहोत्रं सुरार्चा च सन्ध्या नित्यं भवेत्ततः ॥ इति । देवपूजायां सर्ववर्णाधिकारे-- विष्णुः, आगमोक्तेन मार्गेण स्त्रीशूरैरपि पूजनम् । कर्त्तव्यं श्रद्धया विष्णोः सर्वैश्वयंप्रदायकम् । स्मृत्यर्थसारे-- बौधायनः, शूद्राणां चैव भवति नाम्ना वै देवतार्चनम् । सर्वे चागममार्गेण कुर्युर्वेदानुसारिणा ॥ For Private And Personal Use OnlyPage Navigation
1 ... 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 ... 107