Book Title: Vir Mitroday Puja Prakash Author(s): Vishnuprasad Sharma Publisher: Chaukhamba Sanskrit Series Office View full book textPage 7
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org पूजाकालनिरूपणम् । चतुर्थी मोन्तेन देवतानाम्नेत्यर्थः । तथा, Acharya Shri Kailassagarsuri Gyanmandir स्त्रीणामप्यधिकारोऽस्ति विष्णोराराधनादिषु । दीक्षामन्त्रविनोऽपि कुर्याद्देवार्चनं बुधः ॥ इति । प्रतिनिधित्वेन अधिकारिण उक्ताः मन्त्रराजानुष्टुब्विधाने, गुरवः पूजकाचैव विद्वांसो येऽग्निहोत्रणः । अधिकारित्वमर्हन्ति यद्वा याज्ञिकदीक्षिताः ॥ वेदवेदार्थवेत्ता च स्मार्त्तकर्मज्ञ एव वा ॥ इति । इत्यधिकारिणः । अथ पूजाकालः । तत्र माध्याह्निकतर्पणानन्तरं वैश्वदेवात्पूर्व विष्णुपुराण इदेवपूजा, पाद्मनारसिंहयोर्विष्णुपूजोक्ता अतः स एव कालः । व्यासेन वैश्वदेवानन्तरं देवपूजाविधानात् सोऽप्यपरः कालः । इष्टदेव विष्णुपूजाऽन्यदेव पूजानां तु देवकार्यस्य सर्वस्य पूर्वाह्नस्तु विधीयते । इति नरसिंहपुराणीयवाक्यात् पूर्वाह्नः कालः । नारदीये, प्रातर्मध्यन्दिने सायं विष्णुपूर्जा समाचरेत् । यथा सन्ध्या स्मृता नित्या विष्णुपूजा तथा बुधैः ॥ अशक्तौ विस्तरेणैव प्रातः सम्पूजयेद्धरिम् । मध्याह्ने चैव सायं च पुष्पाञ्जलिमपि क्षिपेत् || मध्याह्ने विस्तरेणैव संक्षेपेणाथवा हरिम् । राज्य भोजनं कुर्यादन्यथा नरकं व्रजेत् ॥ नैमित्तिकेषु सर्वेषु तत्तत्कालाविशेषतः । For Private And Personal Use OnlyPage Navigation
1 ... 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 ... 107