Book Title: Tilakamanjiri Part 1
Author(s): Dhanpal Mahakavi, Shantyasuri, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad
View full book text ________________
॥ ॐ अर्ह नमः ॥
* प्रस्तावना
मुनी तीर्थं सार्व, नौमि नेमिं जगद्गुरुम् । लावण्यशीलशालिनं, दक्षमोदक्षमं मुदा ॥ १ ॥
सुविदितमेतदनवद्य गद्यपद्यविद्याविद्योतितान्तःकरण-सुमनोमनोरममनो मण्डलीषु, यदुत - गद्यं पद्याद्विशिष्यते । यद्यपि गद्य-पद्यभेदाभ्यां श्रव्यकाव्यमुभयविधम् । तत्र वृत्तबन्धविरहितं काव्यं गद्यम्, तद्वद्धश्च पद्यम् । तथापि पद्यकाव्ये प्रतिनियन्त्रिताक्षर मात्रानुवृत्त • गद्य-काव्यों- वृत्तबन्धमनुरुन्धानः कविः सनिर्बन्धोऽपि न निबन्धुमीष्टेऽभीष्टरसानुगुणत्कर्षवीजम् गुणरीत्यलङ्कारान् वैयजनिकार्थसम्भारांश्च । अपि च कवेश् छान्द्येनातिस्फुest: पददारिध्याद् दुर्वेद्यतामापद्यते । कृतमधिकेन ? वस्तुतस्तत्र कमनीयकाव्यजननी' कविप्रतिभाभगवती शृङ्खलितेव विपद्यते, व्यापद्यते वा सद्यो दुर्वाद्यत्वमात्मनो विशङ्कमाना |
1
गद्यकाव्ये तूक्तनियन्त्रण निर्मुक्ततया कविरप्रतिहतं प्रभवति यथायथं प्रथयितुमात्मनः प्रतिभामिति तत्र तच्चतस्तदीयं समस्तमन्तस्तच्च मुद्भासते । तदुक्तम्---
"कथायां सरसं वस्तु, गद्यैरेव विनिर्मितम् ।
कचिदत्र भवेदार्या, कचिद् वक्त्राऽपवक्त्र के || १ | " इति
वक्त्रापवक्त्रकपदेनोपलक्षणविधयाऽन्यच्छन्दसामपि ग्रहणान्मध्ये गद्यकाव्यं तदन्यच्छन्दो बद्धकतिपयपद्यसच्वेऽपि न न्यूनता । तस्मात् स्वच्छन्दतया शक्य सर्वांगसौन्दर्य के गद्यकाव्ये पद्यकाव्य इवैकाङ्गसङ्गि सौन्दर्यं न कवेरुत्कर्षाय कल्पते, प्रत्युत सर्वाङ्गसौन्दर्यसम्पादनादाक्ष्यमेवोपक्षिपतीति कविरत्नोत्कर्षपरीक्षणोपायतया गद्यकाव्यं सहृदयसामाजिकजनान्निकषा निकषायतेतराम् । तस्माद् गदितुमर्हमित्यर्थे विशिष्य गद्यपदमनुशिष्यते, सामान्येन तु पद्यपदं पादवत्यर्थे । तस्मात् स्वच्छन्दमुद्भाव्याद् गद्यकाव्यात् पादानुपजीव्य निष्पद्यमानपद्यकाव्यस्यावद्यत्वं गद्य-पद्यपदव्युत्पतिरपि व्यनक्ति ।
प्राच्यप्राज्यगणधरनामपुण्यकर्मणा संख्यातीतदेशकालभावलीनभावभावभावना निपुणयाप्रतिमया प्रतिभया भासुरैः श्रुतकेवलिभिः सर्वाक्षरसनिपातितया जैनजगति प्रभूतं विविधनिबन्धनिबन्धनवैदग्धी दिग्धवाग्वैभवैरपि श्रीमज्जिनेन्द्र चन्द्रवदनासाहित्यं गद्यात्मकम् । रविन्दतस्त्रिपदीमासाद्यान्तर्मुहूर्तेनानेहसा द्वादशाङ्गीं प्रणेतृभिर्गणधरैर्गुforतेषु जैनागमेषु बाहुल्येन गद्यात्मकत्वं दृष्टिपथमवतरति ।
Loading... Page Navigation 1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 ... 196