Book Title: Tilakamanjiri Part 1
Author(s): Dhanpal Mahakavi, Shantyasuri, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad
View full book text ________________
रावयोर्दम्पत्योः पुनर्नयनानन्दनाय सम्भवति" इत्युक्त्वा कष्ठकाण्डान्मुक्त्वा नरेन्द्राय हारमुपजहार । नरेन्द्रोऽपि सादरअग्राह । तदनु वैमानिकोऽपि झटिति तिरोबभूव ।
तदनन्तरं तं हारमतिनिश्चलेन लोचनेनावलोक्य स्वकीयोत्तरीयाश्चले बन्दद्वा च शक्रावतारमध्यङ्गत्वा भगवन्तमादिनाथमाराध्य स्वसदनमागत्य श्रिय सायन्तनसपर्यासमये "त्ववरिवस्यानुभावेनैव लब्धमिदं दिव्यमाभरणं दिव्यां त्वदीयमूर्तिगेवालङ्कर्तुमर्हति" इत्यभिधाय समर्पयामास।
अत्रान्तरे नितान्तगम्भीरो भुवनत्रयोत्थापितप्रतिध्वनि सवनिरुत्तस्थौ । तमाकर्ण्य तदनुसन्धानसश्चारितचक्षुरसौ क्षितिपतिर्वामभागे सनिहितमेकं शवनगलकृतशिरस्कं वेतालमद्राक्षीत् । तमामूलचूलमवेक्ष्य तागट्टहासकारणगपाक्षीच्च।।
"श्रीदेव्याः प्रधानपरिवारं मागाहारदानमात्रेणाप्यपरितोष्य यत् तस्या आराधनमुपक्रान्त, सदेव मदीयहासकारणम् । यतः सेव्यदेवतापार्श्ववर्तिजन एप सेव्यसेवकयोः सम्वन्धमादधानः सेवकसमीहितसिद्धावुपकरोति" इत्युक्तवति वेताले तदुक्तमतियुक्तमभ्युपेत्य विविधफलमूलसं. वलितमोदकादिकं भक्ष्यबलित्वेन तस्मै परिवारायापि नृपतिरुपहर्तुमङ्गीचकार । तनिशम्य पुनरपि सहासमसौ जगाद
नृपते ! राक्षसा धयं न फलानि मूलानि मोदकानि च गाना इवाहरामः, अपि तु व्याघा इवामिषम् , तदपि क्षुद्रसाधकशरीरेश्वेव लभ्यम् । अतस्त्वया संग्रामनिहतेषु क्षत्रियक्षोणीपतिषु कस्यचिल्लोकत्रयश्लाध्यौदार्यगाम्भीर्यगुणस्य नरपतेरभिनवं शुभलक्षणोद्भासुरं कपालकपरमेकमुपहर, यन्निर्गतै रुधिरैः पुण्यासु कृष्णचतुर्दशीषु दुष्टक्षत्रियक्षोणीपतिनिहतस्य स्वपितुस्तर्पर्ण कुर्याम् । तन्निशम्य नृपतिः प्रत्युवाच---
'प्रेतप्रवर! संग्रामेषु निहतानामप्यसंख्यक्षत्रियक्षोणीपतीनामनपेक्षणीयतया मया न संगहीतानि कपालानि । अतस्तत्प्राप्तये प्रतीक्ष्यतां कियान् कालः, अन्यथा गृह्यतां मदीयमेव कपालम् , यदि भवदभिमतगुणकम्भवेत् ' इत्याचक्षाणे नृपे शुभलक्षणोपेतं तदीयं शिरकपालमेव ग्रहीतुमङ्गीकृत्य वामकरतलाकलितकपालकर्णवर्तिकायां कर्तिकां निघृष्य दक्षिणपाणिना तस्मै ददौ। ___अथापि पृथ्वीपतिधैर्यन्दधानः-राक्षसेन्द्र ! दिव्यमस्त्रविधं नास्मादृशां करसम्पर्कमर्हति, किन्तु मामकीन एव कृपाणः करिष्यति भवदभिमतं कार्यमिति ब्रुवाणस्तत्क्षणमेवाबद्धपरिकर आराध्यदेवतां प्रणम्य वामकरण गृहीतोलबद्धकचकलापो दक्षिणकरेण कृपाणमाकृष्य स्कन्धतले स्थापयामास । शिरस्यर्धच्छिन्नग्रीवे सति चलितुमक्षमं दक्षिणबाहुमवेक्ष्य विस्मयमापन्नो वामेन पाणिना केशकलापादवतारितेन कृपाणमादाय कर्तनसौकर्याय कृतकर्तनरन्धं प्रकटयितुमवनमिते शिरसि भूयोऽपि कृपाणं व्यापारयन् म गमकिञ्चिविलुप्तसंज्ञः स्वप्न इव देवाङ्गनाजनहाहा
Loading... Page Navigation 1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 ... 196