Book Title: Shripal Charitram Shloakbaddham
Author(s): Labdhimuni, 
Publisher: Zaveri Mulchand Hirachand Bhagat

View full book text
Previous | Next

Page 10
________________ चरित्रम् श्रीपाल त्सकलं लभेत" ॥ सुरसुन्दरी प्राह-"प्राज्यं च राज्यं सुभगः सुभर्ता, नीरोगगात्रं च पवित्रभोज्यं । गानं च भृत्यं परिवारवर्गः, पुण्येन चैतत् सकलं लभेत ॥ ३१ ॥” द्वितीया मदनसुन्दरी प्राह--"शीलं च दानं * विनयो विवेकः, सद्धर्मगोष्ठिः प्रभुभक्तिपूजा।अखण्डसौख्यं च प्रसन्नता हि, पुण्येन चैतत्सकलं लभेत ॥३२॥" तन्निशम्य सभालोकः, प्रशंसा च कृता तयोः । राज्ञाऽथ पाठकाभ्यां हि, विपुलं दानमर्पितम् ॥३३॥ कुरुजङ्गल देशेऽथ, शंखपुरी वराऽभवत् । दमितारिनृपस्तत्रो-जयिनीनृपसेवकः ॥३४ ॥ तस्यारिदमनाख्योऽस्ति, पुत्रो रूपादिसंयुतः। प्रजापालेशसेवार्थ-मुज्जयिनी स चागतः ॥३५॥ एकस्मिन् समये सोऽरि-दमनो राज-15 पर्षदि । स्थितस्तदा नृपाग्रेऽस्ति, सुरसुन्दर्युपस्थिता ॥ ३६ ॥ सहर्ष सुरसुन्दर्या--ऽरिदमनो विलोकितः । मिथोऽभवत्तयोः प्रीतिः सा तस्योपरि मोहिता ॥ ३७॥ तदा नपेण तज्ज्ञात्वा, पृष्टा सा सुरसुन्दरी। वरं तव हे कन्ये !, करोम्यहं तयाऽकथि ॥ ३८ ॥ हे तात ! मम चित्ते यो-ऽयमरिदमनः स्थितः। श्रीमता भवता ज्ञातः, स एव क्रियतां वरः ॥ ३९ ॥ ममाभिप्राय एषोऽस्ति, पश्चाद्भवद्रुचिर्यथा । मे प्रमाण तथा किञ्च, त्वमेव मम पालकः ॥४०॥ त्वमेव मम कर्त्ता त्वमेव पोषक ईश्वरः । इत्यादिवचसा तातं, सन्तो Jain Educ a tional For Persona & Private Lise Only inelibrary.org

Loading...

Page Navigation
1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100