SearchBrowseAboutContactDonate
Page Preview
Page 10
Loading...
Download File
Download File
Page Text
________________ चरित्रम् श्रीपाल त्सकलं लभेत" ॥ सुरसुन्दरी प्राह-"प्राज्यं च राज्यं सुभगः सुभर्ता, नीरोगगात्रं च पवित्रभोज्यं । गानं च भृत्यं परिवारवर्गः, पुण्येन चैतत् सकलं लभेत ॥ ३१ ॥” द्वितीया मदनसुन्दरी प्राह--"शीलं च दानं * विनयो विवेकः, सद्धर्मगोष्ठिः प्रभुभक्तिपूजा।अखण्डसौख्यं च प्रसन्नता हि, पुण्येन चैतत्सकलं लभेत ॥३२॥" तन्निशम्य सभालोकः, प्रशंसा च कृता तयोः । राज्ञाऽथ पाठकाभ्यां हि, विपुलं दानमर्पितम् ॥३३॥ कुरुजङ्गल देशेऽथ, शंखपुरी वराऽभवत् । दमितारिनृपस्तत्रो-जयिनीनृपसेवकः ॥३४ ॥ तस्यारिदमनाख्योऽस्ति, पुत्रो रूपादिसंयुतः। प्रजापालेशसेवार्थ-मुज्जयिनी स चागतः ॥३५॥ एकस्मिन् समये सोऽरि-दमनो राज-15 पर्षदि । स्थितस्तदा नृपाग्रेऽस्ति, सुरसुन्दर्युपस्थिता ॥ ३६ ॥ सहर्ष सुरसुन्दर्या--ऽरिदमनो विलोकितः । मिथोऽभवत्तयोः प्रीतिः सा तस्योपरि मोहिता ॥ ३७॥ तदा नपेण तज्ज्ञात्वा, पृष्टा सा सुरसुन्दरी। वरं तव हे कन्ये !, करोम्यहं तयाऽकथि ॥ ३८ ॥ हे तात ! मम चित्ते यो-ऽयमरिदमनः स्थितः। श्रीमता भवता ज्ञातः, स एव क्रियतां वरः ॥ ३९ ॥ ममाभिप्राय एषोऽस्ति, पश्चाद्भवद्रुचिर्यथा । मे प्रमाण तथा किञ्च, त्वमेव मम पालकः ॥४०॥ त्वमेव मम कर्त्ता त्वमेव पोषक ईश्वरः । इत्यादिवचसा तातं, सन्तो Jain Educ a tional For Persona & Private Lise Only inelibrary.org
SR No.600194
Book TitleShripal Charitram Shloakbaddham
Original Sutra AuthorLabdhimuni
Author
PublisherZaveri Mulchand Hirachand Bhagat
Publication Year1996
Total Pages100
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy