________________
श्रीपाल ॥ ३ ॥
Jain Educat
॥ १८ ॥ अथैकदा समं गर्भो - त्पत्तिरासीत्तयोर्द्वयोः । सम्पूर्णसमयेऽभूतां, सुते तयोर्द्वयोः क्रमात् ॥ १९ ॥ तदा जन्मोत्सव राज्ञा, कृतस्तयोः पुनस्तयोः । सुनामस्थापनाकाले तोषिता ज्ञातिगोत्रिणः ॥ २० ॥ सौभाग्यसुन्दरीरूप-सुन्दरीसुतयोः क्रमात् । इति नाम कृतं सुर-सुन्दरी मदनसुन्दरी ॥ २१ ॥ प्रवर्द्धन्त्यो मिथः क्रीडां, प्रकुर्वन्त्यो सुखेन च । द्वेऽपि पठनस्यार्हे-ऽभूतां राजसुते क्रमात् ॥ २२॥ उक्तं च--"लालयेत्पञ्चवर्षाणि, दशवर्षाणि ताडयेत् । प्राप्ते तु षोडशे वर्षे, पुत्रं मित्रमिवाचरेत् ॥२३॥” ततः समर्पिता शिव --भूतये सुरसुन्दरी । मदनसुन्दरी राज्ञा, पठनार्थ सुबुद्धये ॥ २४ ॥ मिथ्यत्विगुरुसंसर्गात्, निपुणा सुरसुन्दरी । जाता मिथ्यात्वधर्मे स्त्री- चतुःषष्टिकलासु च ॥२५॥ जैनीयगुरुसंसर्गात्, जाता मदनसुन्दरी । जैनधर्मेरता स्त्रीणां, चतुःषष्टिकलासु च ॥ २६ ॥ जीवाजीवादितत्त्वज्ञा, स्वान्यसमयवेदिनी । कार्मप्रकृतिशास्त्रेषु, निपुणाऽसूद्विशेषतः ॥ २७ ॥ पुनः कर्मैव कर्त्तारं जानाति जिनवाक्यतः । जिनभक्तो रता दक्षा, चावश्यकादिकर्मसु ॥ २८ ॥ शिवभूतिसुबुद्धिभ्यां धार्मिकां व्यवहारिकां । कलां पपाठ्य राज्ञोऽयै, द्वे नीयेते स्म ते सुते ॥२९॥ पुत्रीद्वयपरीक्षार्थं, राजसंसदि भूपतिः । प्रहर्षितः समस्यायाः, पदमेकमचीकथत् ॥ ३० ॥ “ पुन्येन चैत -
For Personal & Private Use Only
national
चरित्रम् ॥ ३॥
anelibrary.org