Book Title: Shripal Charitram Shloakbaddham
Author(s): Labdhimuni,
Publisher: Zaveri Mulchand Hirachand Bhagat
View full book text
________________
श्रीपाल चरित्रम्
॥३९॥
Jain Education
रीतिकं । वर्त्ततेऽतो ध्रुवं चायं, राजपुत्रः प्रदृश्यते ॥१६॥ नृत्ये पूर्णे सति प्राह, कुमारो हे नरोत्तम ! | कोऽसि त्वं त्वं कतः स्थानादागतस्तव नाम किम् ? ॥१७॥ किमपि चेत्त्वयाऽऽश्चर्यं दृष्टं स्यात्तन्निवेदय । ततः श्रुत्वा सोऽवदद्भाग्य-शालिन् ! मद्वचनं श्रृणु ॥१८॥ अस्मिंश्च वलयाकारे, रत्नद्वीपे विशोभितः । विविधशिखरैः रत्नसान्वाख्यः पर्वतोऽस्ति च ॥ १९ ॥ तत्रास्ति नगरी रत्न-सञ्चया तत्र भूपतिः । कनककेतुनामास्ति, विद्याध राधिपो महान् ॥२०॥ तस्य कनकमालाख्या, राज्ञी तत्कुक्षिसम्भवाः । चत्वारः सन्ति तत्पुत्राः, राजतेजोविशोभिताः ॥ २१ ॥ कनकप्रभ नामाऽस्ति, कनकशेखरस्ततः । कनकध्वज नामास्ति, कनकरुचि नामकः ॥२२॥ तेषामुपरि तत्त्वज्ञा, रम्या सुशीलशालिनी । एका मदनमञ्जूषा ऽभिधा सुताऽस्ति रूपिणी ॥२३॥ तस्यां पुर्यां वसत्येको, जैनधर्मपरायणः । जिनदेवाभिधः श्राद्धो, जिनदासोऽस्मि तत्सुतः ||२४|| एकमपूर्वमाश्चर्यं युष्मदग्रे वदाम्यहं । सावधानतया यूयं तच्छृणुत नरोत्तम ! ॥२५॥ रत्नसानुनगस्यास्य, शिखरोपरि संस्थितं । कनककेतुभूपस्य, पितामहेन कारितम् ॥ २६ ॥ उन्नतमस्ति विस्तीर्णं, रत्नमयं मनोरमं । चैत्यं श्रीआदिनाथस्य, नानाशिखरशोभितम् ॥ २७॥ युग्मम् ॥ तत्र हेममयी मूर्त्तिः, श्रीयुगादिजिनेशितुः । रत्नद्वीपाधिपस्तस्याः, सेवां
For Personal & Private Use Only
ational
श्लोकवर्ड ५ सर्गः
॥३९॥
helibrary.org

Page Navigation
1 ... 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100