SearchBrowseAboutContactDonate
Page Preview
Page 45
Loading...
Download File
Download File
Page Text
________________ श्रीपाल चरित्रम् ॥३९॥ Jain Education रीतिकं । वर्त्ततेऽतो ध्रुवं चायं, राजपुत्रः प्रदृश्यते ॥१६॥ नृत्ये पूर्णे सति प्राह, कुमारो हे नरोत्तम ! | कोऽसि त्वं त्वं कतः स्थानादागतस्तव नाम किम् ? ॥१७॥ किमपि चेत्त्वयाऽऽश्चर्यं दृष्टं स्यात्तन्निवेदय । ततः श्रुत्वा सोऽवदद्भाग्य-शालिन् ! मद्वचनं श्रृणु ॥१८॥ अस्मिंश्च वलयाकारे, रत्नद्वीपे विशोभितः । विविधशिखरैः रत्नसान्वाख्यः पर्वतोऽस्ति च ॥ १९ ॥ तत्रास्ति नगरी रत्न-सञ्चया तत्र भूपतिः । कनककेतुनामास्ति, विद्याध राधिपो महान् ॥२०॥ तस्य कनकमालाख्या, राज्ञी तत्कुक्षिसम्भवाः । चत्वारः सन्ति तत्पुत्राः, राजतेजोविशोभिताः ॥ २१ ॥ कनकप्रभ नामाऽस्ति, कनकशेखरस्ततः । कनकध्वज नामास्ति, कनकरुचि नामकः ॥२२॥ तेषामुपरि तत्त्वज्ञा, रम्या सुशीलशालिनी । एका मदनमञ्जूषा ऽभिधा सुताऽस्ति रूपिणी ॥२३॥ तस्यां पुर्यां वसत्येको, जैनधर्मपरायणः । जिनदेवाभिधः श्राद्धो, जिनदासोऽस्मि तत्सुतः ||२४|| एकमपूर्वमाश्चर्यं युष्मदग्रे वदाम्यहं । सावधानतया यूयं तच्छृणुत नरोत्तम ! ॥२५॥ रत्नसानुनगस्यास्य, शिखरोपरि संस्थितं । कनककेतुभूपस्य, पितामहेन कारितम् ॥ २६ ॥ उन्नतमस्ति विस्तीर्णं, रत्नमयं मनोरमं । चैत्यं श्रीआदिनाथस्य, नानाशिखरशोभितम् ॥ २७॥ युग्मम् ॥ तत्र हेममयी मूर्त्तिः, श्रीयुगादिजिनेशितुः । रत्नद्वीपाधिपस्तस्याः, सेवां For Personal & Private Use Only ational श्लोकवर्ड ५ सर्गः ॥३९॥ helibrary.org
SR No.600194
Book TitleShripal Charitram Shloakbaddham
Original Sutra AuthorLabdhimuni
Author
PublisherZaveri Mulchand Hirachand Bhagat
Publication Year1996
Total Pages100
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy