________________
ओपाल चरित्रम् ॥४०॥
श्लोकवृद्ध ५सर्गः
RecACCIRBALASAHALCHALGC
करोति सर्वदा ॥२८॥ तस्य मदनमञ्जूषा, पुत्री परमभक्तितः। सर्वदा सविशेषं च, हर्षोल्लसितमानसा ॥२९॥ सादरं जिनबिम्बाङ्ग-रचनां च मनोरमाम् । अष्टप्रकारिकां पूजां, करोति विधिपूर्वकम् ॥३०॥ युग्मम् ॥ सा नृपपुत्र्यथान्येद्यु-स्तस्मिन् चैत्ये जिनार्चनं । अचीकरत्ततो मूर्तेः,शोभाऽभवन्मनोरमा ॥३१॥ एवंविधां जिनाचा | स्व-पुत्रीकृतां मनोरमां । दृष्ट्वा विद्याधरेशोऽपि, जहर्ष निजमानसे ॥ ३२ ॥ व्यचिन्तयत्स मे पुत्र्या, वरा जिनाचना कृता । अत इयं ध्रवं धन्या, कृतपुण्या स्थिराशया॥३३॥ जिनभक्तिरता दक्षा, सुशीलाऽस्ति ततो | वरः । अस्यास्तत्सदृशः श्रेष्ठो, यदि मम मिलिष्यति ॥३४॥ तदैव मे समाधानं, मानसे च भविष्यति । इति विचारयन् यावत्, शून्यभावं गतः क्षणम् ॥३५॥ युग्मम् ॥ पुनर्मनसि सद्भाव, कृत्वा जिनेन्द्रदर्शनं । भूपः | | स आगतो बाह्य-मण्डपे रङ्गमण्डपात् ॥३६॥ तदैव नृपपुत्री सा, पश्यन्ति जिनबिम्बकम् । मूलद्वाराद्विनिर्गत्य, | चागता रङ्गमण्डपे ॥३७॥ तत्क्षणादेव चैत्यस्य, मूलद्वारकपाटको । महच्छब्दं प्रकुर्वन्तौ, झटिति मिलितो समम् ॥३८॥ तदाश्चयं विलोक्याथ, मिलिता अखिला जनाः। राज्ञाऽपि तत्कपाटोद्घा-टनोपायाः कृता भृशम् | ॥३९॥ परन्तुघटितौ नैव, कथञ्चित्तत्कपाटको। तदा नृपसुता चित्ते, पश्चात्तापं करोति सा ॥४०॥ यन्मयाऽद्य
SHOCALCANCHACKASS
॥४०॥
Sain Educa
t
ional
For Persone & Private Use Only
nelibrary.org