Book Title: Shripal Charitram Shloakbaddham
Author(s): Labdhimuni,
Publisher: Zaveri Mulchand Hirachand Bhagat
View full book text
________________
%
श्लोकबद्धं दिस
श्रीपाल चरित्रम् ॥७॥
1-%AE%
पुत्तलिका प्राह-"आराधय त्वं सुगुरुं सुदेवं, पात्रेषु दानं कुरु सत्सुसङ्गम् ।
तीर्थेषु यात्रां च विधेहि नित्यं, आत्मा हि येन सफलीभवेच्च ॥ ५३॥"
ततश्च निपुणा प्राह-“यावद्विधात्रा लिखितं ललाटे ॥" पुत्तलिका प्राह-"रे चित्त ! खेदं परिमुञ्च नित्यं, चिन्तासमूहे न कुरु स्वजीवम् ।
फलं भवेदत्र परत्र ताव-द्यावद्विधात्रा लिखितं ललाटे ॥ ५४॥"
ततो वदति दक्षा-" तस्यैव दासाश्च त्रिलोकलोकाः " | पुत्तलिका प्राह-“यत्सञ्चितं पूर्वभवे भवेच्च, तेनैव पुण्येन भवन्ति कामाः ।
भोगाश्च राज्यानि शिवेष्टसौख्यं, तस्यैव दासाश्च त्रिलोकलोकाः ॥ ५५ ॥" अथ समं सखीभिश्च, ज्ञात्वा शृङ्गारसुन्दरी । समस्यापूरणं चित्त-गतं च भावसूचकम् ॥ ५६ ॥ वरमाला कुमारस्य, कण्ठे चिक्षेप भूपतिः। जहर्षाथ समस्यायाः, पूरणमवगत्य च ॥ ५७ ॥ युग्मम् ॥ ततो राजा कुमारेण, समं तासां विवाहकं । चकाराथ कुमारोऽपि, तत्र तस्थौ प्रियायुतः ॥ ५८ ॥
AGACASS-
C+N
Jain Educatio
n
al
For Personal & Private Use Only
POnlibrary.org

Page Navigation
1 ... 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100