Book Title: Shripal Charitram Shloakbaddham
Author(s): Labdhimuni,
Publisher: Zaveri Mulchand Hirachand Bhagat
View full book text
________________
मीपाल चरित्रम् ॥८७॥
नोकृताऽनेन, पुरी तदा गले मुनिं । धृत्वा ते सेवका निष्का-सयामासुः पुराबहिः ॥ २३ ॥ तदा राज्ञी | | गवाक्षस्था, तदृष्ट्वाऽहूय तत्क्षणं । नृपं निर्भर्त्सयामास, नृपोऽपि लज्जितोऽवदत् ॥२४॥ हे प्रिये ! स मुनिश्चात्रा-नीयतां क्षामणामहं । तेन समं विधास्येऽथ, राझ्याहूतो मुनिः स च ॥ २५ ॥ तं नत्वा वापराधं स, क्षामयित्वा मुनेः पुरः । स्थितस्तदाऽवदद्राज्ञी, मुनीश्वर ! क्षमाधन ! ॥ २६ ॥ मेऽनेन स्वामिना २ साधु-मारणबन्धनायघं । कृतमतोऽस्य शुद्धयर्थं, कोप्युपायः प्रकाश्यताम् ॥ २७ ॥ तन्निशम्य मुनिः प्राह, IP हे भद्रेऽयं ! नृपोऽकरोत् । मुनिसन्तापनं जीव-घातादिबहुपातकम् ॥ २८ ॥ अथ तत्पापशुद्ध्यर्थ, युवाभ्यां | भावपूर्वकं । विधेयं सिद्धचक्रस्या-राधनं पापनाशिनः ॥ २९ ॥ तत्स्वीकृत्याथ भूपेन, राझ्या समं सुभावतः। |मुन्युक्तविधिना सिद्ध-चक्रस्याऽऽराधना कृता ॥३०॥ राज्ञीसखीभिरष्टाभि-उद्यापनक्षणे कृता । सद्भावपूर्वकं सिद्ध-चक्रपूजाऽनुमोदना ॥३१॥ सप्तशतनरैस्तैश्च, धर्मकर्मपरायणं । दृष्ट्वा नराधिपं तस्य, धर्मकार्य | प्रशंसितम् ॥३२॥ पुनस्तैः क्षामितं किञ्चि-निजपापमथैकदा। नृपेण तैः समं ग्रामः, सिंहराजस्य लुण्टि-18 तः ॥ ३३ ॥ ग्रामाद्धनादिकं लात्वा, ते पश्चादलितास्तदा । सिंहराजोऽपि लात्वा स्व-सैन्यं तत्पृष्ठतोऽग
RAKAS
1001
Sain Educat
onal
For Persone & Private Use Only
nelibrary.org

Page Navigation
1 ... 91 92 93 94 95 96 97 98 99 100