Book Title: Shripal Charitram Shloakbaddham
Author(s): Labdhimuni, 
Publisher: Zaveri Mulchand Hirachand Bhagat

View full book text
Previous | Next

Page 99
________________ श्रीपाल चरित्रम् ॥९३॥ Jain Educat नवपदेषु कर्त्तव्या, समुदितेषु का कथा ? ॥ ९३ ॥ संसारे सद्गतिं जीवा, ययुर्यास्यन्ति ि च । तत्पदाराधनाहेतु-र्ज्ञेयो नापरकारणम् ॥ ९४ ॥ ततः सभास्थिताः प्रापु- र्हर्षं नृपादयो जनाः । अथ तस्मिन् क्षणे तत्र, महावीरः समागमत् ॥ ९५ ॥ प्रभोरागमनं श्रुत्वा, हर्षितः श्रेणिको नृपः । तत्र गत्वा प्रभुं नत्वा, सुश्राव प्रभुदेशनाम् ॥ ९६ ॥ ततश्च पृष्टवान् भूपः सिद्धचक्रस्वरूपकं । जिनोऽपि तत्स्वरूपं च, गौतमवज्जगाद च ॥ ९७ ॥ इति श्रीमत्खरतरगच्छालङ्कारहारोपम-संविग्नचक्रचूडामणि- क्रियोद्धारक - परमशासनप्रभावक - श्रीमन्मोहन मुनीश्वरान्तेवास्यनेकशिष्य शिक्षक - श्रीमद्राजमुनिवर विनेय श्री मल्लब्धिमुनिविरचिते श्रीपालचरित्रे श्लोकबद्धे श्रीपाल पूर्वभवीयश्रीकान्तनृपवृत्तान्तादिव्यावर्णनो नाम दशमस्सर्गः । ॥ प्रशस्तिः ॥ श्रीमत्खरतरे गच्छे, जिनमहेन्द्रसूरयः । सुविहितेऽभवन् श्रीम - द्वीर परम्परागताः ॥ ९८ ॥ तत्करार्पितदीक्षाः श्री - मोहनाख्या मुनीश्वराः । जाता कृतक्रियोद्धारा, विख्याता अत्र भूतले ॥ ९९ ॥ तेषां शिष्या महादक्षा, आसन्महातपखिनः । श्रीमज्जिनयशः सूरी - श्वराः शान्ता जितेन्द्रियाः ॥ १०० ॥ तेषां पदे च For Personal & Private Use Only ational श्लोकबद्ध ११० सर्गः ॥९३॥ nelibrary.org

Loading...

Page Navigation
1 ... 97 98 99 100