Book Title: Shripal Charitram Shloakbaddham
Author(s): Labdhimuni, 
Publisher: Zaveri Mulchand Hirachand Bhagat

View full book text
Previous | Next

Page 87
________________ IM ततो मम । सैन्येन तव स स्वामी, क्षणाद्विनश्यति ध्रुवम् ॥ ५२ ॥ एवंविधानि वाक्यानि, तस्य श्रुत्वाऽश्रीपाल चरित्रम् वदत्पुनः । दूतो भोऽजितसेन ! त्वं, तु खद्योतो रविः स च ॥ ५३ ॥ ततो निष्कारणं लोक-संहारकरणेन ॥८॥ च । भविष्यति तवानिष्ट-मेव तत्त्वं विचारय ॥ ५४ ॥ श्रुत्वेत्यजितसेनोऽपि, निर्भर्त्सनादिपूर्वकं । दूत निष्कास्य चोवाच, भो दूत ! त्वं बजाशु हि ॥ ५५ ॥ तव प्रभुं रणाय त्वं, सम्प्रेषय रणावनौ । आगत्याह करिष्यामि, त्वत्स्वामिना समं रणं ॥ ५६ ॥ श्रुत्वेति दूत आगत्य, श्रीपालाय न्यवेदयत् । सर्वोदन्तं तदा तेन, स्वसेना प्रगुणीकृता ॥ ५७ ।। अविच्छिन्नप्रयाणैश्चा-गतः श्रीपालभूपतिः। चम्पापरिसरे तत्रा-जित-18 सेनोऽपि चागतः ॥ ५८ ॥ अथ संग्रामभूमौ च, श्रीपालाजितसेनयोः । जातं सैनिकवीराणां, युद्धं महाभयङ्करम् ॥ ५९ ॥ श्रीपालसैनिकैस्तत्रा-जितसेनस्य सैनिकाः । भग्नास्तदा स्वयं तत्रा-जितसेनः समागतः ॥ ६० ॥ स्वसैनिकान् स्थिरीकृत्य, स च श्रीपालसैनिकान् । ममन्थ दधिवत्तेन, नष्टप्रायं कृतं बलम् । ॥ ६१ ॥ तदृष्ट्वा सहसाऽऽगत्य, तैः सप्तशतराणकैः । अजितसेनभूमोशः, परितः परिवेष्टितः ॥ ६२ ॥ तेषां च सिंहनादेना-जितसेननृपस्य च । अखिला सहसा सेना, दिशोदिशं पलायिता ॥ ६३ ॥ ततस्ते || StestISGARH AGRAATHA १॥ Jain Educ a tional For Persone & Private Use Only O nelibrary.org

Loading...

Page Navigation
1 ... 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100