SearchBrowseAboutContactDonate
Page Preview
Page 77
Loading...
Download File
Download File
Page Text
________________ % श्लोकबद्धं दिस श्रीपाल चरित्रम् ॥७॥ 1-%AE% पुत्तलिका प्राह-"आराधय त्वं सुगुरुं सुदेवं, पात्रेषु दानं कुरु सत्सुसङ्गम् । तीर्थेषु यात्रां च विधेहि नित्यं, आत्मा हि येन सफलीभवेच्च ॥ ५३॥" ततश्च निपुणा प्राह-“यावद्विधात्रा लिखितं ललाटे ॥" पुत्तलिका प्राह-"रे चित्त ! खेदं परिमुञ्च नित्यं, चिन्तासमूहे न कुरु स्वजीवम् । फलं भवेदत्र परत्र ताव-द्यावद्विधात्रा लिखितं ललाटे ॥ ५४॥" ततो वदति दक्षा-" तस्यैव दासाश्च त्रिलोकलोकाः " | पुत्तलिका प्राह-“यत्सञ्चितं पूर्वभवे भवेच्च, तेनैव पुण्येन भवन्ति कामाः । भोगाश्च राज्यानि शिवेष्टसौख्यं, तस्यैव दासाश्च त्रिलोकलोकाः ॥ ५५ ॥" अथ समं सखीभिश्च, ज्ञात्वा शृङ्गारसुन्दरी । समस्यापूरणं चित्त-गतं च भावसूचकम् ॥ ५६ ॥ वरमाला कुमारस्य, कण्ठे चिक्षेप भूपतिः। जहर्षाथ समस्यायाः, पूरणमवगत्य च ॥ ५७ ॥ युग्मम् ॥ ततो राजा कुमारेण, समं तासां विवाहकं । चकाराथ कुमारोऽपि, तत्र तस्थौ प्रियायुतः ॥ ५८ ॥ AGACASS- C+N Jain Educatio n al For Personal & Private Use Only POnlibrary.org
SR No.600194
Book TitleShripal Charitram Shloakbaddham
Original Sutra AuthorLabdhimuni
Author
PublisherZaveri Mulchand Hirachand Bhagat
Publication Year1996
Total Pages100
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy