________________
श्रीपाल परित्रम ॥७२॥
अथान्येयुः समागत्य, कोऽपि भट्टो जगाद तं । भोः ! कुमारास्ति कोल्लागे, पुरे पुरन्दराख्यराट् ॥ ५९ ॥2
श्लोकबद्धं तस्यास्ति विजया राज्ञी, तस्याश्च हरिविक्रमः। नरविक्रम- हयादि-सेनादिसप्तपुत्रकाः ॥ ६० ॥ तदुपरि सर्गः सुताऽस्त्येका, तस्याश्च जयसुन्दरी । कन्योपाध्यायपात्सा, पपाठ सकलाः कलाः ॥ ६१ ॥ राजाऽथ वसुतां दृष्ट्वा, तद्वरार्थमचिन्तयत् । तदा निवेदितं कन्या-ऽभिप्रायं पाठकेन च ॥ ६२ ॥ हे ! भूपेयं भवत्कन्या-ऽभिप्रायः साधयिष्यति । राधावेधं च यः कोऽपि, स वरो मम नापरः ॥ ६३ ॥ चक्रे नृपोऽथ | रङ्गादि-सामग्री तत्र मण्डपे । ऊर्वीकृतो महत्स्तम्भ-स्तदने चक्रकाष्टकम् ॥ ६४ ॥ वामप्रदक्षिणावर्त, भ्राम्यद्यन्त्रप्रयोगतः । तस्याप्युपर्यधोवक्त्रा, स्थापिता काष्टपुत्तली ॥६५॥ अधस्तैलभृतं कुण्डं, तत्राधो, वर्तिदृष्टिना । ऊर्ध्वसंहितबाणेन, सा विध्या वामचक्षुषि ॥ ६६ ॥ त्रिभिर्विशेषकम् ॥ केनाप्येवंविधो राधा-वेधोऽद्यापि न साधितः । अस्ति श्रत्वेति तस्मै च, कुमारः कुण्डलं ददौ ॥६७ ॥ अथाकाशाध्वना राधा-वेधस्थाने स चागमत् । तत्साधनाय भूयांस-स्तत्रान्ये मिलिता जनाः ॥ ६८ ॥ तदा तत्र कुमारेण,15 राधावेधः प्रसाधितः। तदा कन्या कुमारस्य, कण्ठे चिक्षेप मालिकाम् ॥ ६९ ॥ प्रमुदितेन राज्ञाऽथ,
॥७२॥
Jain Educ
a
tional
For Personal & Private Lise Only
nelibrary.org