Book Title: Shripal Charitram Shloakbaddham
Author(s): Labdhimuni,
Publisher: Zaveri Mulchand Hirachand Bhagat
View full book text
________________
श्रीपाल चरित्रम्
118211
प्रति ॥ ६४ ॥ अथ सर्वेऽपि गच्छन्तः, समागता जिनालयं । श्रीपालोऽथावदल्लोकान्, परीक्षध्वं स्वभाग्यकम् ॥६५॥ तदोक्तं तैर्विना सूर्य, कमलं नोद्घटत्यहो ! । तथाऽपि स्पर्शितो सर्वैस्तत्कपाटौ प्रहर्षितैः ॥ ६६ ॥ परन्तुदुद्घटितौ नैव, श्रीपालोऽथ सदाशयः । नैषेध्यादिविधिं कृत्वा, कपाटाग्रे समेत्य च ॥६७॥ चक्रे नवपदध्यानं, तत्क्षणाच्छब्दपूर्वकं । उद्घटितौ कपाटो तो, तदानन्दं जनेऽभवत् ॥ ६८ ॥ युग्मम् ॥ श्रीश्रीपालोऽथ कृत्वा श्री - जिनबिम्बस्य विस्तरात् । अष्टप्रकारिकां पूजां चकार चैत्यवन्दनम् ॥ ६९ ॥ तदा मदनमञ्जूषा, स्वपुत्रीसहितो नृपः । परिवारैः समं शीघ्रं तत्र समागतो मुदा ॥ ७० ॥ महदाश्चर्यसंयुक्तः कुमारं पश्यति स्म सः । कुमारोऽथ स्तुतिं चैवंविधां चकार तद्यथा ॥ ७१ ॥
"जय त्वं जगदानन्द !, जय त्वं जगदीश्वर ! । जय त्वं त्रिजगद्बन्धो !, जय त्वं त्रिजगत्प्रभो ! ॥७२॥ जय त्वं त्रिजगन्नेत्र !, जय त्वं त्रिजगत्पते ! । जय त्वं त्रिजगन्नाथ !, जय त्वं नाभिनन्दन ! ॥ ७३ ॥ नमस्ते केवलालोक-लोकालोकविलोकिने ! । नमस्ते भुवनादित्य !, भव्याम्भोजविकाशिने ॥ ७४ ॥ नमस्ते सर्वतः सर्पन्, मोहध्वान्तविनाशिने ! । नमस्ते विश्वविख्यात सर्वनीतिप्रकाशिने ! ॥७५॥ नमस्ते सर्वकल्याण-कारिणे !
For Personal & Private Use Only
Jain Educational
श्लोकबद्धं १५ सर्गः
॥४३॥
inelibrary.org

Page Navigation
1 ... 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100