SearchBrowseAboutContactDonate
Page Preview
Page 49
Loading...
Download File
Download File
Page Text
________________ श्रीपाल चरित्रम् 118211 प्रति ॥ ६४ ॥ अथ सर्वेऽपि गच्छन्तः, समागता जिनालयं । श्रीपालोऽथावदल्लोकान्, परीक्षध्वं स्वभाग्यकम् ॥६५॥ तदोक्तं तैर्विना सूर्य, कमलं नोद्घटत्यहो ! । तथाऽपि स्पर्शितो सर्वैस्तत्कपाटौ प्रहर्षितैः ॥ ६६ ॥ परन्तुदुद्घटितौ नैव, श्रीपालोऽथ सदाशयः । नैषेध्यादिविधिं कृत्वा, कपाटाग्रे समेत्य च ॥६७॥ चक्रे नवपदध्यानं, तत्क्षणाच्छब्दपूर्वकं । उद्घटितौ कपाटो तो, तदानन्दं जनेऽभवत् ॥ ६८ ॥ युग्मम् ॥ श्रीश्रीपालोऽथ कृत्वा श्री - जिनबिम्बस्य विस्तरात् । अष्टप्रकारिकां पूजां चकार चैत्यवन्दनम् ॥ ६९ ॥ तदा मदनमञ्जूषा, स्वपुत्रीसहितो नृपः । परिवारैः समं शीघ्रं तत्र समागतो मुदा ॥ ७० ॥ महदाश्चर्यसंयुक्तः कुमारं पश्यति स्म सः । कुमारोऽथ स्तुतिं चैवंविधां चकार तद्यथा ॥ ७१ ॥ "जय त्वं जगदानन्द !, जय त्वं जगदीश्वर ! । जय त्वं त्रिजगद्बन्धो !, जय त्वं त्रिजगत्प्रभो ! ॥७२॥ जय त्वं त्रिजगन्नेत्र !, जय त्वं त्रिजगत्पते ! । जय त्वं त्रिजगन्नाथ !, जय त्वं नाभिनन्दन ! ॥ ७३ ॥ नमस्ते केवलालोक-लोकालोकविलोकिने ! । नमस्ते भुवनादित्य !, भव्याम्भोजविकाशिने ॥ ७४ ॥ नमस्ते सर्वतः सर्पन्, मोहध्वान्तविनाशिने ! । नमस्ते विश्वविख्यात सर्वनीतिप्रकाशिने ! ॥७५॥ नमस्ते सर्वकल्याण-कारिणे ! For Personal & Private Use Only Jain Educational श्लोकबद्धं १५ सर्गः ॥४३॥ inelibrary.org
SR No.600194
Book TitleShripal Charitram Shloakbaddham
Original Sutra AuthorLabdhimuni
Author
PublisherZaveri Mulchand Hirachand Bhagat
Publication Year1996
Total Pages100
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy